________________
॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ ५३ ॥
Jain Education
स्वपुरं प्राप । धनदत्तश्रेष्ठिपार्श्वे दीनारशतं याचतेस्म । ततो धनदतो नार्पयति लोभात् कथयति च । त्वं कः केन दृष्टः कूटं न जल्प्यते, नागदत्तोऽवग्-यदि मम दीनारशतं नार्पयिष्यसि तदा राजपार्श्वे त्वां दण्डयिष्यामि । धन| दत्तोऽवम् - यदि तव शक्तिर्भवति तदा स्वचिन्तितं कुरु । नागदत्तः परधनपराङ्मुखो न कस्यापि पतितं धनं | गृह्णाति । इतस्तत्र प्रियमित्रसार्थपतेः सुता नागवसुरभूत् । अत्यंत रूपवती वर्द्धमाना क्रमात प्राप्तसर्वकलाकुशला नागदत्तं वरीतुकामाऽभूत् । इत आरक्षकवसुदेवेन याचिता नागवसुः । प्रियमित्र सार्थपतिस्तां तस्मै न ददौ । ततो नागदत्तेन नागवसुः परिणीता । ततो वसुदेवो जातमत्सरो नागदत्तमनर्थे पातयितुं छलं विलोकयामास । एकदा राजवाहनिकाया व्यावर्तमानस्य नृपतेरनाभोगात् कुंडलं भूमण्डले पतितम् । ततस्तत्रागतो नागदत्तोऽदत्तपरिहारवती तं | कुण्डलं वीक्ष्य मार्गान्तरेण गत्वाष्टमीदिने कार्योत्सर्गे वने स्थितः । तदा स तलारक्षस्तं कुण्डलं दृष्ट्वा गृहीत्वा प्रतिमास्थस्य नागदत्तस्य पार्श्वे वस्त्रेणाच्छाद्य मुमोच विघ्ने पातयितुं तम् । राजा तद्रत्नमयं कुण्डलं विलोकयति यावत्तावद्वसुदेवोऽभ्येत्य | जगौ । स्वामिन् राजमार्गेऽहमुपविष्टोऽभूवं यदा तदा नागदत्तेन नीचैर्भूत्वा किं गृहीतं न ज्ञायते । ततो राज्ञ आदेशात् नागदत्तं विलोकयितुं सेवका गताः । भ्रमन्तस्ते प्रतिमास्थं नागदत्तं दृष्ट्वा तत्पार्श्वे गताः । वस्त्रेणाच्छादितं कुण्डलं
For Private & Personal Use Only
श्रीनागदत्तकथानकम् ।
॥ ५३ ॥
www.jainelibrary.org