________________
दीपे गतो नागदत्तः । ततो बहुधनमर्जयित्वा पश्चाद्यानारूढो महेभ्येन समं चचाल जलधिमार्गेण । अकस्माद्यानपात्रं नीचस्थानस्थितजले पतितं न निर्गच्छति । तदा सर्वेपि लोका व्याकुला बभूवुः । शान्तिकपौष्टिकानि । कुर्वन्ति लोकाः । तदा नागदत्तोऽवग्-यानस्वामिनं प्रति आसन्नशैले भारण्डाः पक्षिणो बहव उपविष्टा दृश्यन्ते ।। यदि तत्र गत्वा कोऽपि साहसी पुमांस्तानुड्डापयति तदा तेषां पक्षेभ्यो बहुर्वायुरुत्पत्स्यते, तेन यानं निस्सरिष्यति । ततः प्रोक्तं यानस्वामिना कस्याप्यस्ति तत्र गन्तुं शक्तिः । कोऽपि नोत्सहते भयात् तदानीं यानेशेनोक्तं यो गच्छति तत्र तस्य दीनारशतं दास्यते । ततो नागदत्तस्तत्र गत्वा साहसी नमस्कारोच्चारपूर्व यानपात्रकर्षणाय भारण्डानुड्डापयामास । तत्पक्षोत्पन्नवातेनाब्धिजलं मूञ्छितम् । ततश्चोर्मिभिरुत्पाद्य यानं बहिः| कर्षितम् । यानेशः स्वमन्दिरे गतः। नागदत्तः तत्र स्थितः क्षधया पीडितो निर्गमनोपायं चिन्तयति । ततश्चिन्तितं| क्षुधया पीडित आ| यदि मरिष्यामि तदा दुर्गतिर्भविष्यति मे, ततोऽधुनैव जले पतित्वा मरिष्ये । एवं विचिन्त्य झम्पा दचा। पतितो नागदचो मत्स्यमुखे । मत्स्यो गच्छंस्तटं प्राप्तः । यावन्मत्स्येन मुखं विकासितं तावन्नागदत्तो बहिर्निस्ससार । कस्मिंश्चिज्जलाशये गत्वा जलं पीत्वा स्वस्थीभूय फलावा चकार । नागदत्तो भ्रमंश्च क्रमात
-
For Private Personel Use Only
www.jainelibrary.org