________________
नास्ति । इति साभिप्रायमुत्तरं ददौ मुनिः । ततस्तया चिन्तितं, अहो क्षुल्लकेन सत्यमुक्तम् । ततस्तया श्राविकया । शुद्धधर्म सम्यक्त्वमूलं द्वादशवतं गृहीतं । क्षुल्लकश्च शुद्धान्नपानं विहृत्य धर्मशालायां गतः। अथ क्षुल्लकः कदाचित् ।
वर्षाकाले कल्पिततडागिकायां सवयोभिः शिशभिः समं नौवत् निजजलपात्रं तारयन् श्रीगौतमस्वामिनं प्रेक्ष्य लजितः।। Kalततः सापत्रपः क्षुल्लकः श्रीवीरसमवसरणे जगद्गुरोः पुरो वासनायाः प्रायश्चित्तरूपां ईर्यापथिकी प्रतिक्रमन् ‘दगमट्टी
दगमट्टी' इति शब्दमुच्चरन् पृथ्वीकायकानप्कायकान् जीवान् क्षामयन् सर्वकर्मक्षयात् केवलज्ञानं प्राप । ततस्तत्राभ्येत्य देवाः केवलिमहोत्सवं चक्रुः । यतः “ प्रणिहन्ति क्षणार्डेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ १॥ मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि, मुक्त्यै निर्विषयं मनः ॥ २॥” ततोऽतिमुक्तककेवली भव्यजीवान् प्रतिबोधयन् प्रतिदेशं प्रतिनगरं प्रतिग्राम सूर्यपुरीबहिरुद्याने । समवासार्षीत् । तत्र जितशत्रुनृपतिरनेकजनयुतो वन्दितुं ययौ। त्रिःप्रदक्षिणां दत्त्वा धर्म श्रोतुमग्रत उपविष्टः । अतिमुक्तककेवली धर्मोपदेशनां ददाविति। तथाहि-आयुर्वायुचलं सुरेश्वरधनुञ्जेलं बलं यौवनं, विद्युद्दण्डतुलं धनं गिरिनदीकल्लोलवच्चञ्चलम्। स्नेहं कुञ्जरकर्णतालचपलं देहं च रोगाकुलं, ज्ञात्वा भव्यजनाः सदा कुरुत भो धर्म महानिश्चलम्॥१॥
Jain Educat
i
onal
For Private Personel Use Only
|www.jainelibrary.org