SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ कृतानेकतमस्कोऽपि, निजं निन्दन् सुभावतः । ईपिथिकया सिद्धो-ऽतिमुक्त इव देहभाग् ॥ १॥ ___ पेढालपुरे महानगरे श्रीविजयराजा राज्यं चकार । तस्य राज्ञी श्रीमती सच्छीलशालिनी । द्वावपि जिनधर्मकुशलौ । दानशीलतपोभावनापूजाप्रभावनाऽमारिघोषणासप्तक्षेत्रीस्वधनवपनादि पुण्यं कुरुतः स्मः । यतः-" स्वल्पश्रीसंयुता येऽपि, दानं कुर्वन्त्यनेकधा । स्वशक्तिं प्रकटीकृत्य, ते धन्या दानिनां मताः ॥१॥ रोगक्लेशमदोन्मादैः, सर्वदुःखपरीषहैः । स्वीकृतं ये न मुञ्चन्ति, व्रतं स्युस्ते बुधैः स्तुताः ॥ २॥" क्रमात्तयोधर्म कुर्वाणयोः सुतोऽभूत् । तस्य पुत्रस्य जन्मोत्सवं कृत्वा राजा अतिमुक्तक इति नाम ददौ । स च कुमारः षट् वार्षिको । बालत्वे रममाणो गोचरचर्यामागतं श्रीगौतमस्वामिनं दृष्ट्रा हृष्टः सन् प्रणम्य प्राह-भगवन्नहं भवादृशो भविष्यामि ।। Kगौतमेनोक्तं त्वं बालोऽसि दीक्षा दुःकराऽस्ति अत्र दुःशक्यं चारित्रमिति । तथाहि-"तपःक्रियामनोगुप्ति-विनयादि सुकर्मभिः । चारित्रं दुष्करं पुंसां, जायते नात्र संशयः॥१॥" तेनोक्तं शिशुरप्यहं भवादृशो भविष्यामि । श्रीगौतमे विशुद्धान्नादि विहृत्य गते बालको मातापित्रोः पुरोऽभ्येत्यावग्-मम व्रतं ददतं । श्रीगौतमस्वामिसदृशो भविष्यामि । मातापितृभ्यां प्रोक्तं एवं कथमुच्यते. स्त्रमेवैकः पुत्र आवयोरसि । राज्यं कस्याधारे भविष्यति ? त्वम Jain Education international For Private & Personel Use Only lallsww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy