SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | भित्त्वा दक्षिणहनोः पाटलातरुरुद्गतो विशालच क्रमादजनि । तदत्र पाटलिद्रोः प्रभावोऽभूत् । तं तादृशं पाटलितरुं प्रेक्ष्य नवीनपुरस्थापनाय राजा स्वसेवकानादिदेश । विचक्षणास्ते पाटलायाः स्थानाच्चतसृषु दिक्षु पूर्वादिषु शिवायाः शब्दं जायमानं श्रुत्वा तावन्तमवधीकृत्य पुरस्य चतुरस्रं संनिवेशं चक्रुः । पाटलायाश्चतसृषु दिक्षु स्थापनत्वात् पाटलातरोः समीपे पुरनिवेशनात् पाटलिपुत्र पत्तनं बभूव । राजा तत्रागत्य तन्नगरं स्थापयामास । महादानं ददौ। च । तस्य पाटलातरोरसम कुसुमबहुलतया च कुसुमपुरमित्यपि रूढं पुरम् । तस्य पुरस्य मध्ये कैलासशैलसोदरं | | स्फटिकरश्मिमयं श्रीजिनप्रासादं राजा कारयामास । तन्मध्ये अरिष्टरत्नमयीं नेमिप्रतिमां भूरिद्रव्यव्ययान्महोत्सवपूर्व | स्थापयामास उदायी राजा । तंत्र प्राकारानेकजिनप्रासाद महेभ्यालयवापीकूपतडागावाससत्रागारादिरम्यं पुरं स्वश्रिया | स्वर्गपुरीं जिगाय । तत्रोदायी राजा जिनधर्म्मवासितसप्तधातुश्चिरं राज्यं चकार । अन्येद्युरुदायी भूपः श्रीगुरुपार्श्वे धर्मे श्रोतुं गतः । तत्रेति धर्मः श्रीगुरुभिरुक्तः । प्राज्यानि राज्यानि सुभोजनानि, सौभाग्यनैरोग्यसुयोग्यवर्ग्यः । रामा रमा रम्ययशोविलासाः, स्वर्गापवर्गौ प्रभवन्ति धर्मात् ॥ १॥ दारिद्र्यमुद्रा परकर्मकृच्च दुष्टस्वभावोऽसुखसङ्ग-तानि । एकत्वरङ्कत्वकदन्नभोज्यकुरूपमुख्यानि भवन्त्यधर्मात् ॥२॥ यः शत्रुञ्जये गत्वा श्रीयुगादिजिनं प्रणमति स स्वर्गा For Private & Personal Use Only v.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy