________________
SAR
॥ श्रीभरतेश्वर वृत्तिः॥
॥४९॥
|ऽचित्तोऽस्ति, तेषु यत्नादहमत्रायामि । गुरुराह-कुतस्त्वयाऽचित्तप्रदेशो ज्ञायते । तयोक्तं त्वत्पदप्रसादादेव ज्ञायते । श्रीअन्निका
पुत्राचार्यगुरुभिरुक्तम्-प्रतिपातिज्ञानं विद्यतेऽथवाऽप्रतिपाति ? तयोक्तमप्रतिपातिज्ञानमस्ति । ततो गुरव उत्थाय मिथ्यादुष्कृतं || चरित्रम्। भवतु, मया हा खेदे केवल्याशातना कृता इति पुनः पुनः स्वं निन्दन्तः पप्रच्छुस्तां साध्वी प्रति । अहं कि सेत्स्यामि । न वेति ? केवली प्राह-माकृध्वमधृतिं गङ्गा नदीमुत्तरतां युष्माकं केवलज्ञानं भविष्यति । ततो गङ्गामुत्तरीतुं भूरिलोकैः सह नावमारुरोह सूरिः। यत्र यत्र सूरिय॑षीदत्तत्र तत्र नौर्नमत्यधः । तदनु मध्यासीने मुनौ सर्वापि नौमतुं लग्ना।। ततः सूरिौंकैर्जले क्षिप्तः । दुर्भगीकरणविराधया प्राग्भवपत्न्या व्यन्तरीभूतयाऽन्तर्जलं शूले निहितः । शूलपोतोऽपि हा मदीयरुधिरेणाप्कायविराधना भाविन्यस्तीति क्षपकश्रेण्यारूढः सर्वकर्मक्षयोत्पन्नकेवलज्ञानः सद्यः समाप्तायुष्कोऽन्तकृतकेवली सिद्धोऽन्निकापुत्र आचार्यशिरोमणिः । तदा तत्र समेत्यासन्नैः सुरैस्तस्यान्तकृतकेवलिनः केवलिमहश्चक्रे ।। अतस्तत्तीर्थ जातं जगति विख्यातं प्रयाग इति लोके । शूलप्रोतत्वाद् गतानुगतिकतयाऽद्यापि परसमये माहेश्वराः स्वाङ्गे। क्रकचं दापयन्ति । सूरेः करोटिर्यादोभिस्त्रोटयमानाऽपि जलोमिभिर्नदीतीरं प्राप्ता, इतस्ततो गच्छन्ती शुक्तिवन्नदीतटे क्वापि ll गुप्तविषमे प्रदेशे विलग्य तस्थौ । तस्य च करोटिकर्परस्यान्तः कदाचित् पाटलाया बीजं पपात । कमात्तं करोटिकप्पर
in Education In
For Private & Personal Use Only
www.jainelibrary.org