________________
तदुदयाद्धेतुहेतुमद्भावेन यद्भवति तदार्याद्वयेनाह -
कर्मोदयाद्भवगतिर्भवगतिमूला शरीरनिर्वृत्तिः । देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥ ३९ ॥ कर्मोदयाद् - उदिते कर्मणि भवगतिः, तन्मूला शरीरनिर्वृत्तिः, देहादिन्द्रियनिर्वृत्तिः, तस्यां विषयसक्तिः, विषयनिमित्ते च सुखदुःखे जीवस्य भवतः ॥ ३९ ॥
ततः किमित्याहु:
दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ ४० ॥ दुःखद्वि- अशर्मद्वेषी सुखलिप्सुः - शर्माभिलाषी जीवो मोहेनान्धो - विवेकलोचनविकलः स तथा तस्य भावस्तत्त्वं तस्मात् किमित्याह- अदृष्टगुणदोषो - अज्ञातगुणदोषो यां यां करोति-विधत्ते चेष्टां - अशुभक्रियां तया तया दुःखमादत्तेगृह्णातीत्यार्याद्वयार्थः ॥ ४० ॥
Jain Educationtentional
‘देहादिन्द्रियविषया' इत्युक्तं प्राकू, तदासक्तस्यापायानार्यापञ्चकेनाह
कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥ ४१ ॥ गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ॥ ४२ ॥ स्नानाङ्गरागवर्तिकवर्णकरूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥ ४३ ॥ मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलय पाशबद्धो मीन इव विनाशमुपयाति ॥ ४४॥
For Private & Personal Use Only
कर्मजन्यादिपरम्परा
jainelibrary.org