SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विषयदोषाः प्रशमरतिः ₹ शयनासनसम्बाधनसुरतलानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥ ४५॥ हारि. वृत्तिः ___ कलं-मनोज्ञं श्रूयमाणम् , रिभितं-घोलनासारम् , मधुरं-श्रोत्रसुखदायकम् । ततः पदत्रयस्य कर्मधारयः। तच्च तद् गान्धर्व॥९॥ गीतं तत्तथा । तूर्याणि-वादित्राणि, योषिद्विभूषणानि-नूपुरादीनि तेषां कृतद्वन्द्वानां रवो-हृदयाह्लादको घोषः स आद्यो येषां वीणादीनां ते तथा। तैः किमित्याह-श्रोत्रावबद्धहृदयः-श्रवणासक्तचित्तो हरिण इव विनाशमुपयातीति व्यक्तम् ॥४१॥ गतिविभ्रमः-सविकारगमनम् , यद्वा पृथग्द्धे पदे, ततो गतिः-मण्डनतारूपा, विभ्रमो-मनोहराभरणानामङ्गेषु रचनात्मकः । | यद्वा विभ्रमः-चिरकालात् प्रियदर्शने प्रीत्या सोत्सुकमुत्थानम् , इङ्गितं तु-स्निग्धावलोकनम् , यद्वा महामतिज्ञेयं गूढं मनश्चेष्टितम्, आकारस्तु-स्तनमुखोरसन्निवेशो, यद्वा सर्वशरीरस्य हृद्यं संस्थानम् । हास्यं तु-सविलासं सलीलं हसनम् । लीलापदं | सर्वक्रियासु प्रवर्तनम् । कटाक्षः-सराग तिर्यनिरीक्षणम् , यद्वा चित्रा दृष्टिसंवरा, एतैर्गत्यादिभिर्विक्षिप्तो-विह्वलीकृतः सः, तथा रूपावेशितचक्षुः वनितारूपादौ निवेशितदृष्टिः शलभ इव विपद्यते, विवशः-पतङ्गवद्विनश्यत्य शरण इति ॥४२॥ स्नान-सुगन्धिजलदेहधावनम् अङ्गरागस्तु कुङ्कुमादिः, सुरभिद्रव्यनिष्पन्ना दीपवर्त्याकारा वर्तिका, वर्णकः-चन्दनम्, धूपस्तु प्रतीतः, अधिवासस्तु-कस्तूरिकादि, पटवासस्तु-वस्त्रसौरभ्यकारी गन्धविशेषः, एषां सप्तानां द्वन्द्वः तैः, 'याकारा'से विति क्वचिद्हणात् इस्वत्वं वर्तिकायाः। गन्धभ्रमितमनस्को-गन्धविह्वलचित्तो मधुकर इव नाशमुपयाति-भ्रमरवद्वि नश्यतीति ॥४॥ SSSSS ॥ ९ ॥ Jain Education a l For Private Personal Use Only Mainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy