________________
विषयदोषाः
मिष्टाश्च तेऽनपानमांसौदनादयश्च प्रसिद्धास्ते तथा, ते च मधुररसाश्च-लौल्यास्वादा द्राक्षाखण्डादयस्त एव विषयो
एव विषयो- त रसनायाः गोचरस्तत्र गृद्ध आत्मा यस्य स तथा । गलो-लोहमयोऽङ्कुशः यन्त्रं-जालं पाशो-वालादिमयस्तित्तिरादिग्रहण
हेतुस्तेषां द्वन्द्वस्तबद्धो-वशीकृतो मीन इव-मत्स्यवद्विनाशमुपयातीति ॥ ४४ ॥ शयनं-शय्या, आसनं-मसूरकादि, 18 सम्बाधनं-विश्रामणा, सुरतं-मैथुनसेवा, स्नानम्-अङ्गप्रक्षालनम् , अनुलेपनं-कुङ्कुमादिसमालम्भनम् , तेषां द्वन्द्वस्तेष्वासक्तः। स्पर्शेत्यादि व्यक्तमिति ॥४५॥
एतदासक्तानां वा दोषा बाधाकरा भवन्तीत्यावेदयन्नाहएवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः॥४६॥ एवम्-उक्तप्रकारेण दुर्नियमितेन्द्रियाणां जीवानामनेके दोषा बाधाकरा भवन्तीति योगः। कीदृशानाम् ?-दृष्टिश्च-ज्ञानम् , चेष्टा च-क्रिया ते तथा । शिष्टानां-विवेकिनामिष्टे-प्रिये ते च दृष्टिचेष्टे च २ ते तथा । ततःप्रनष्टे-अपगते शिष्टेष्टदृष्टिचेष्टे येषां ते तथा।पाठान्तरं तु दृष्टचेष्टानां, तबेष्टा चासौ दृष्टा च-अवलोकिता २सा चासौ चेष्टा चेष्टदृष्टचेष्टा शिष्टानामिष्टदृष्टचेष्टा २ सा तथा, ततः प्रनष्टा शिष्टेष्टदृष्टचेष्टा येषां ते तथा तेषां । पुनः कीदृशानाम् ?-दुनियमितानि-दोषं ग्राहितानीन्द्रियाणि-हृषीकाणि यैस्ते तथा तेषां बाधाकरा:-पीडाविधायकाः । कथम् ?-बहुशः-अनेकधेति ॥ ४६॥
एवमेकैकासक्ता विनाशभाजो जाताः, यः पुनः पञ्चस्वासक्तः स सुतरां विनश्यतीति प्रकटयन्नाहएकैकविषयसङ्गादागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पश्चेन्द्रियवशातः॥४७॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org