SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ १० ॥ Jain Education एकैकविषयसङ्गात्-शब्दाद्येकैकाभिष्वङ्गाद् रागद्वेषातुरा विनष्टाः सन्तस्ते हरिणादयः । किमिति प्रश्ने । पुनरिति वितर्के । अनियमितात्मा जीवः पञ्च च तानीन्द्रियाणि च २ तेषां वशोऽत एवार्त :- पीडितः स पञ्चेन्द्रियवशार्तो न विनश्यति ?, अपितु विनश्यतीति ॥ ४७ ॥ किंच-न सकश्चिद्विषयोऽस्ति येन जीवस्तृप्तो भवतीत्यावेदयन्नाह - नहि सोऽस्तीन्द्रियविषयो येनाभ्यस्तेन नित्यतृषितानि । तृप्तिं प्राप्नुयुरक्षाण्यनेक मार्गप्रलीनानि ॥ ४८ ॥ नैवास्ति स इन्द्रियविषयो येनाभ्यस्तेन - पुनः पुनरासेवितेन नित्यतृषितानि -सर्वदा पिपासितानि, किं ? - तुष्टिं प्राप्नुयुः -तुष्टिमागच्छेयुः । कानि ? - अक्षाणि - इन्द्रियाणि । कीदृशानि ? - अनेक मार्गप्रलीनानि - बहुविषयासक्तानि, पुनः पुनः स्ववि षयानाकाङ्क्षन्तीत्यर्थ इति ॥ ४८ ॥ अपिच - एतानि स्वविषयेष्वपि नैकस्वरूपाणी त्यावेदयन्नाह - कश्चिच्छुभोsपि विषयः परिणामवशात्पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभी भवति ॥ ४९ ॥ कश्चिद्विषय: शुभोsपि - इष्टोऽपि परिणामवशात्- विरूपादिपरिणतिवशात् अनिष्टो भवति । कश्चित्पुनरशुभोऽपि - अनिष्टो |ऽपि भूत्वा - सम्पद्य कालेन पुनः शुभीभवति-प्रियः सम्पद्यते इत्यनवस्थितानि प्रेमाणि, अतस्तज्जन्यं सुखमनित्यमिति ॥४९॥ ईदृशश्च भावः परिणामवशात्, स च न निर्निबन्धन इत्यावेदयन्नाह - कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥५०॥ For Private & Personal Use Only अतृप्तिः अनियतत्वं ॥ १० ॥ ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy