________________
कारणवशेन रागाद्यायत्ततया यद्यत् प्रयोजनं मधुरशब्दाकर्णनादि जायते - भवति यथा - येन प्रकारेण यत्र वस्तुनि तेनैव कारणेन हेतुना तथा - तेनैव प्रकारेण तं विषयं - (ग्रं. ३००) शब्दादिकमिष्टानिष्टतया प्रकल्पयति-पर्यालोचयतीति । अत्र भावना-यथा विषं अशुभमपि शत्रुविनाशकत्वेनेष्टं तथा मिष्टान्नमपि पित्तनमिति मत्वा द्वेष्टीति ॥ ५० ॥
अस्यैवार्थस्य भावनामाह -
अन्येषां यो विषयः खाभिप्रायेण भवति पुष्टिकरः । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये ॥ ५१ ॥ अन्येषां विवक्षित पुरुषापेक्षया अपरेषां यो विषयः - शब्दादिः स्वाभिप्रायेण - रागान्निजाकूतेन भवति पुष्टिकरः तुष्टिकरो वा- पोषोत्पादकस्तोषोत्पादको वा स्वमतेः स्वमत्या वा विकल्पो - विकल्पनं तत्राभिरता - आसक्ताः स्वमतिविकल्पाभिरताः द्वेषवशात् तमेव विषयं पुनरनिष्टतया द्विषंत्यन्य इति ॥ ५१ ॥
एवं च सति अस्य जीवस्य नैकान्तेन किंचिदिष्टमनिष्टं वाऽस्तीति दर्शयन्नाह
तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ ५२ ॥ तावार्थान्-शब्दादीन् द्विषः- अप्रीयमाणस्यास्य जीवस्येतियोगः । तानेवार्थान् प्रलीयमानस्य - आश्रयतो निश्चयतोनिश्चयमाश्रित्यास्येति योजितमेवानिष्टम् - असुन्दरं नैव विद्यते किंचित् किमपि वस्त्विष्टं वा - प्रीतमिति ॥ ५२ ॥
तत एवंविधजीवस्य यत्स्यात्तदाह
रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य । नान्यः खल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥ ५३ ॥
Jain Education notional
For Private & Personal Use Only
परिणामवैचित्र्यं
Jainelibrary.org