________________
प्रशमरतिः हारि, वृत्तिः
॥ ११ ॥
Jain Education
स्पष्टमेवेति ॥ ५३ ॥
इदमेव भावयन्नाह -
यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥ ५४ ॥ यस्मिन्निन्द्रियविषये - शब्दादिके, शुभं भव्यम्, अशुभम् - अभव्यम्, निवेशयति- स्थापयति, भावं- परिणामम्, रक्तो वा- प्रीतः, द्विष्टो वा अप्रीतः, स भावो बन्धहेतुर्भवति - ज्ञानावरणाद्यष्टविधकर्मबन्धनकारणं स्यात्तस्य जीवस्येति ॥ ५४ ॥
अथ कथं पुनरात्मप्रदेशस्य कर्मपुद्गला लगन्तीत्याह
स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ ५५ ॥ स्नेहेन-तैलादिना अभ्यक्तं- वक्षितं शरीरं वपुर्यस्य जीवस्य स तथा तस्य रेणुना धूल्या श्लिष्यते - आश्लिप्यते यथा| येन प्रकारेण गात्रं - वपुरिति दृष्टान्तः, रागद्वेषक्लिन्नस्य - आर्द्रस्य कर्मबन्धो भवत्येवमिति व्यक्तमिति ॥ ५५ ॥
ional
सम्प्रति रागद्वेषप्रधानान् कर्मबन्धहेतून् समस्तानेवोपसंहरन्नाह
एवं रागो द्वेषो मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥ ५६ ॥ एवं रागादिभिः पञ्चभिः प्रतीतैः कीदृशैः ? - प्रमादो - मद्यादिः पञ्चधा योगो - मनोयोगादित्रिकं २ ते तथा ताननुगच्छन्तिअनुसहायीभवन्ति २ तैः प्रमादयोगानुगैः समादीयते ? - गृह्यते, किं ? - कर्मेति ॥ ५६ ॥
For Private & Personal Use Only
रागद्वेषौ कर्महेतू
॥ ११ ॥
ww.jainelibrary.org