________________
प्रशममहिमा
ततश्च
कर्ममयः संसार संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेर्मूलम् ॥ ५७ ॥ | कर्ममयः-अदृष्टनिष्पन्नः । कः?-संसारः, ततः किम् ?-तन्निमित्तकं-तत्कारणं पुनर्दुःखम् , तस्माद्रागद्वेषादयो भवसततेर्मूलमिति ॥ ५७॥
ननु कथमेतन्निर्जेतुं शक्यमत आह| एतद्दोषमहासञ्चयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥५८॥
एतत् रागादिदोषसञ्चयजालं जालमिव जालं यथा मत्स्यादीनामादायकं तद्वदेतदपि, दुःखहेतुत्वात्, शक्यमुद्वेष्टयितुम्अपनेतुं विनाशयितुमिति सम्बन्धः । केन ?-जीवेन । कीदृशेन?-अप्रमत्तेन-उद्यतेन । तथा प्रशमस्थितेन-उपशमपरेण ।। जालं तु कीदृशम् ?-घनमपि-गहनमपि, तथा निरवशेष-समस्तमिति ॥ ५८ ॥ तदुद्वेष्टने चास्य जीवस्य एवंविधा चिन्ता उपजायते इत्याद्यार्यापञ्चकेनाहअस्य तु मूलनिबन्धं ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपःखाध्यायध्यानयुक्तस्य ॥ ५९॥ प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धोंछमात्रयात्राधिकारस्य ॥६॥ जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणे कृतप्रतिज्ञस्य ॥ १॥ परिणाममपूर्वमुपागतस्य शुभभावनाऽध्यवसितस्य । अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥२॥
Jain Education
H
a
For Private & Personel Use Only
I
mjainelibrary.org