________________
पात्रं
प्रशमरतिः
वैराग्यमार्गसम्मस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता ॥६॥ । शुभचिन्ताहतर वृत्तिः । अस्य रागादिदोपजालस्य मूलनिबन्धं प्रमादयोगरूपं ज्ञात्वा-बुद्धा जीवस्येति शेषः । शुभा-प्रशस्येयमेवोपपद्यते-जायते |
चिन्ता-चित्तवृत्तिरिति पञ्चमार्यापर्यन्ते, इति संटङ्कः । ततो जीवस्य विशेषणत्रयोदशकमाह-तस्य-दोषजालस्य छेदने-घाते ॥१२॥
उत्साहस्तत्र परः-प्रकृष्टः तस्य, तथा दर्शनं-तत्त्वश्रद्धानम् , चारित्रं-सामायिकादि पञ्चधा, ध्यान-धादि द्विधा, ततो द्वन्द्वस्तैर्युक्तस्येति ॥५९॥ प्राणवधेत्यादिप्रथमार्धेन सुखबोधेन मूलगुणयुक्तस्येति कथितम् । अथोत्तरगुणयुक्ततामाह-नव च ताः कोटयश्च-अग्रभागा अंशा अश्रयो नवकोट्यः, ताश्चैवं-न स्वयं हन्ति १ नान्येन घातयति २ घ्नन्तमन्यं नानुमोदयति ३, एवं न पचति १ न पाचयति २ पचन्तं नानुमोदयते ३, एवं न क्रीणाति १ न क्रापयति २ क्रीणन्तं नानुमोदयते ३, एता मीलिता नव कोट्यः, पुनरिमा द्विधा-आद्याः षट् अविशुद्धकोटयोऽन्त्यास्तिस्रो विशुद्धकोटयः। तथोद्गमः-उत्पत्तिः, यथा 'उग्गमं से य पुच्छे|जा' इत्यादि, ततो नवकोटीभिरुद्गमस्तेन शुद्धो-निर्दोषस्तथोंछ इवोंछः-शुद्धाहारः स एवोंछमात्रम् । ततश्च नवकोट्युद्गमशुद्धं 8 च तदुंछमात्रं च तत्तथाभूतं-निर्दोष आहारस्तेन यात्रायां-संयमे अधिकारो-नियोगो यस्य स तथा तस्येति ॥ ६॥ जिनभाषितार्थानां-जीवादिवस्तुनां सद्भावान्-परमार्थान् भावयति स तथा तस्येति । विदितलोकतत्त्वस्य-ज्ञातलोकस्वरूपस्य । लोकश्च-जीवाजीवाधारक्षेत्रं । अष्टादशानां शीलानाम्-अवयवे समुदायोपचारात् शीलाङ्गानां-चारित्रांशानां वक्ष्यमाणानां
॥१२॥ सहस्राणि तेषां धारणं-परिपालनं तस्मिन् कृता-विहिता प्रतिज्ञा-अङ्गीकारो येन स तथा तस्येति ॥६१॥ उपागतस्य-प्रातस्य । कम्?-परिणाम-धर्माध्यवसायम् । कीदृशम् ?-अपूर्व शुद्धिप्रकर्षयोगात्, शुभभावनासु-द्वादशविधासु महाव्रतसत्कपश्च
RSSROOMSECRECRUARCSC
Jain Education
For Private & Personel Use Only
ainelibrary.org