________________
SALOPESCOLARSHI
विंशतिप्रमाणासु वाऽध्यवसितस्य-कृताध्यवसितस्येति समासः। अभिपश्यतः-पर्यालोचयतो जानानस्यैवेत्यर्थः। किम्?-उत्तरो
हितचिन्ता त्तरविशेष,कथम् ?-अन्योऽन्यं,यथा सामायिकचारित्रं तावन्मूलं विशुद्धिमत् , ततोऽपिछेदोपस्थापनीयचारित्रं विशुद्ध्या विशेष-18 वदित्यादि । मूलवस्त्वपेक्षयाऽग्रेतनाग्रेतनानि वस्तूनि प्रधानानीति तात्पर्यम्।क्क?-समये-जिनशासनस्य विषये इति ॥१२॥वैराग्यमार्गसंप्रस्थितस्य-विरागतापथाश्रितस्य संसारवासचकितस्य-भववसनत्रस्तस्य स्वहित-आत्मपथो मोक्षः स एवार्थः-प्रयोजनं तत्राभिमुख्येन रता-प्रीता मतिः-बुद्धिर्यस्य स तथा,तस्यैवंविधस्य शुभेयमुपपद्यते चिन्तेति व्याख्यातमेवेति सूत्रपञ्चकार्थः॥६३॥
तामेव चिन्तां स्पष्टयन्नाहभवकोटीभिरसुलभं मानुष्यं प्राप्य का प्रमादो मे? । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥ ६४॥ भवा-नारकाद्यास्तेषां कोटीभिः संख्याविशेषः असुलभं-दुर्लभमेव मानुष्यं-मनुजजन्म तदेवंविधमतिदुष्प्रापं प्राप्य कोऽयं मम प्रमादः?,नच-नैव गतं-क्षीणमायुः-जीवितं भूयः-पुनरपि प्रत्येति-समागच्छति देवराजस्यापि-शक्रस्यापि, किंपुनरन्यस्येति ॥ ६४ ॥ किंच
आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः॥६५॥
आरोग्य-नीरोगता, आयुः-जीवितम् , बलं-सामर्थ्यम् , समुदायो-लक्ष्मीस्ततो द्वन्द्वस्ते चलाः-चञ्चलाः, वीर्यम्-उत्सादहस्तदनियतं-विनश्वरं धर्मे-क्षान्त्यादिके, तत्-प्राक्तनं आरोग्यादि लब्ध्वा-प्राप्य हितकार्ये-शास्त्राध्ययनादौ मयोद्यम-उत्साहः
सर्वथा-सर्वप्रकारैः कार्यो-विधातव्य इति ।। ६५॥
GREGORIAS RAQUOSE
प्र.र.३
Jain Educatio
n
al
For Private & Personel Use Only
A
njainelibrary.org