SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ १३ ॥ Jain Educatio 'हितकार्ये शास्त्राध्ययनादा' वित्युक्तं तच्च विनयमृते न भवत्यतो विनीतेन भाव्यमित्यावेदयन्नाह - शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥६६॥ शास्त्रम् - आचारादि गुरुपरम्परागतं तदेवागमः - शास्त्रमेवागमस्तस्मादृते - विना न हितमस्ति । न च शास्त्रमस्ति विनयमृते, तस्माच्छास्त्रागमलिप्सुना - शास्त्रागमलाभमिच्छता विनीतेन भवितव्यमिति ॥ ६६ ॥ सत्स्वपि कुलादिषु अविनीतो न शोभत इत्याह कुलरूपवचनयौवनधनमित्रैश्वर्यसंपदपि पुंसाम् । विनयप्रशमविहीना न शोभते निर्जलेच नदी ॥ ६७ ॥ कुलम् - उद्यादि, रूपं - शरीरावयवसमताजनितं सौन्दर्य, वचनं- मधुरत्वादिगुणभाक्, यौवनं - युवावस्था, धनं हिरण्यादि गणिमादि चतुष्पदादि वा, मित्र-सखा, ऐश्वर्यम्-ईश्वरभावः, प्रभुत्वमित्यर्थः, ततो द्वन्द्वसमासस्तेषां सम्पत्-प्रकर्षवि - शेषः । सम्पच्छब्दः प्रत्येकं योज्यते । साऽपि पुंसां नृणां । कीदृशी ? - विनयप्रशमविहीना न शोभते-न भाति । केवेत्याहनिर्जला - जलहीना नदीव - सरिदिवेति ॥ ६७ ॥ अस्यैवार्थस्योपचयार्थमाह न तथा सुमहाघैरपि वस्त्राभरणैरलंकृतो भाति । श्रुतशीलमूलनिकषो विनीतविनयो यथा भाति ॥ ६८ ॥ न च - नैव तथा भाति - शोभते इति सम्बन्धः । कैः १ - वस्त्राभरणैः । कीदृशैः ? - सुमहार्थैरपि अलंकृतो - विभूषितो यथा भाति । कीदृशः पुमान् ? - श्रुतं - आगमः, शीलं - मूलोत्तरगुणभेदं चरणं तयोर्मूलनिकषो - निकष इव, कषपट्टकः - परीक्षास्थानं, विनीतो - विशेषेण प्राप्तो विनयो येन स तथेति ॥ ६८ ॥ tional For Private & Personal Use Only विनयवर्णनम् ॥ १३ ॥ w.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy