________________
विनयवर्णनम्
अपिच-गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गाराधनपरेण हितकांक्षिणा भाव्यम् ॥ ६९॥ | शास्त्रारंभाणां गुर्वायत्ततो गुराधनपरेण-आचार्याद्यासेवापरेण हितकाविणा-मोक्षाभिलाषिणा शिष्येण भाव्यं-भवितव्यमित्यर्थः॥ ६९॥
गुरौ वोपदिशति सति एतत् परिभावयतो बहु मन्तव्यमेव, नोद्वेगः कार्य इति दर्शयन्नाहधन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिमृतो वचनरसश्च(सरसच)न्दनस्पर्शः॥७॥ | धन्यस्य-पुण्यवत उपरि निपतति च वचनरसश्च(सरसच)न्दनस्पर्शः इति सम्बन्धः । कीदृशः ?-अहितसमाचरणधर्मनिर्वापी-अपथ्यासेवनतापापनोदनकर्ता गुरूणां वदनं-वत्रं तदेव मलयः पर्वतस्तस्मानिसृतो-विनिर्गतो गुरुवदनमलयनिसृतो वचनं-वाक्यं तदेव सरसचन्दनस्पर्शः-साश्रीखण्डस्पर्शनमिति ॥ ७॥ | किमित्येवं गुरुवचनमभिमन्यत इत्याहदुष्पतिकारौ मातापितरौ खामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्रच सुदुष्करतरप्रतीकारः॥७९॥ (ग्रं०४००)
दुष्प्रतिकारौ-अशक्यप्रत्युपकारौ मातापितरौ भवत इति शेषः । तथा स्वामी-राजादिकः पोषकश्च गुरु:-धर्माचार्यः च समुच्चये । लोके-मर्त्यनिवहेऽस्मिन्-अत्र, तत्रापि विशेषमाह-तत्र-तेषु चतुर्यु मध्ये गुरुरिह-अत्र जन्मन्यमुत्र च-परस्मिन् भवे सुदुष्करतरो-महाकष्टेनाप्यशक्यः प्रत्युपकारो यस्य स तथेति ॥ ७१॥
Jain Education
VR
For Private Personel Use Only
Goldjainelibrary.org