SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ विनयवर्णनम् अपिच-गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गाराधनपरेण हितकांक्षिणा भाव्यम् ॥ ६९॥ | शास्त्रारंभाणां गुर्वायत्ततो गुराधनपरेण-आचार्याद्यासेवापरेण हितकाविणा-मोक्षाभिलाषिणा शिष्येण भाव्यं-भवितव्यमित्यर्थः॥ ६९॥ गुरौ वोपदिशति सति एतत् परिभावयतो बहु मन्तव्यमेव, नोद्वेगः कार्य इति दर्शयन्नाहधन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिमृतो वचनरसश्च(सरसच)न्दनस्पर्शः॥७॥ | धन्यस्य-पुण्यवत उपरि निपतति च वचनरसश्च(सरसच)न्दनस्पर्शः इति सम्बन्धः । कीदृशः ?-अहितसमाचरणधर्मनिर्वापी-अपथ्यासेवनतापापनोदनकर्ता गुरूणां वदनं-वत्रं तदेव मलयः पर्वतस्तस्मानिसृतो-विनिर्गतो गुरुवदनमलयनिसृतो वचनं-वाक्यं तदेव सरसचन्दनस्पर्शः-साश्रीखण्डस्पर्शनमिति ॥ ७॥ | किमित्येवं गुरुवचनमभिमन्यत इत्याहदुष्पतिकारौ मातापितरौ खामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्रच सुदुष्करतरप्रतीकारः॥७९॥ (ग्रं०४००) दुष्प्रतिकारौ-अशक्यप्रत्युपकारौ मातापितरौ भवत इति शेषः । तथा स्वामी-राजादिकः पोषकश्च गुरु:-धर्माचार्यः च समुच्चये । लोके-मर्त्यनिवहेऽस्मिन्-अत्र, तत्रापि विशेषमाह-तत्र-तेषु चतुर्यु मध्ये गुरुरिह-अत्र जन्मन्यमुत्र च-परस्मिन् भवे सुदुष्करतरो-महाकष्टेनाप्यशक्यः प्रत्युपकारो यस्य स तथेति ॥ ७१॥ Jain Education VR For Private Personel Use Only Goldjainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy