SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विनय प्रशमरतिः हारि. वृत्तिः वर्णनम् ॥१४॥ अथ विनयादेवोत्तर(रोत्तरफल)मार्यात्रयेणाहविनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चास्रवनिरोधः॥७२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥७३॥ योगनिरोधावसंततिक्षयः संततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥ दृष्टमितिपदं वक्ष्यमाणं सर्वत्र योज्यम् । विनयफलं दृष्टम् । किं ?-शुश्रूषा-श्रोतुमिच्छा, यदाचार्य उपदिशति तत् सम्यक शुश्रूषते । श्रुत्वा चानुतिष्ठति । गुरुशुश्रूषाफलं श्रुतज्ञानं-आगमलाभो, ज्ञानस्य फलं विरतिः-नियमो, विरतिफलं | आस्रवनिरोध-आस्रवद्वारस्थगनं, संवर इत्यर्थः, इति ॥ ७२ ॥ संवरफलं तपोबलं-तपःसामर्थ्य, अथ तपसो निर्जरा फलं दृष्ट, कर्मपरिशाटनं, तस्मात् क्रियानिवृत्तिः-अक्रियत्वं, क्रियानिवृत्तेरयोगित्वं-योगनिरोध इति ॥ ७३ ॥ सुगम इति ॥७॥ ये पुनरविनीतास्तेषां स्वरूपमाहविनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीलाः । त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्विग्नाः ॥ ७ ॥ विनयाद् व्यपेतं-नष्टं मनः-अन्तःकरणं येषां ते तथा । तथा गुरुविद्वत्साधुपरिभवनशीला:-आचार्यपण्डितयतिपराभवस्वभावाः। त्रुटि:-अल्पशब्दवाच्यः पदार्थः कालविशेषो वा स एव त्रुटिमात्रं त्रुटिमात्राश्च ते विषयाश्च-शब्दादयस्तेषु सङ्ग:सम्बन्धः तस्माद्धेतोः, किमित्याह-अजरामरवत्-जरामरणरहिता वयमिति विकल्पपरा लौकिकसिद्धाइव निरुद्विग्नाः-निर्भया। वर्तन्ते । न कदाचिदस्माकं जरामरणादि भविष्यतीति मन्यन्त इति ॥ ७५ ॥ ॥१४॥ in Education Intematonai For Private & Personel Use Only www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy