________________
गौरवदोषा:
एतदेव सदृष्टान्तं स्पष्टयन्नाहकेचित् सातर्द्धिरसातिगौरवात् सांप्रतेक्षिणः पुरुषाः । मोहात् समुद्रवायसवदामिषपरा विनश्यन्ति ॥७६॥
केचिदेवाविदितपरमार्थाः सातं-सुखं ऋद्धिः-विभवः रसा-मधुरादयः, तेषु अतिगौरवम्-अत्यादरस्तस्माद्धेतोः सांप्रतेक्षिणो-वर्तमानकालदर्शिनः, त एवंविधाः पुरुषाः किं?-मोहाद्-अज्ञानात् समुद्रवायसवदामिषपरा विनश्यन्ति, मृतकरिकलेवरापानप्रविष्टमांसास्वादगृद्धकाकवत् वृष्टिजलपूरेण जलधिमध्यमागते कलेवरे निर्गत्य तेनैवापानमार्गेण सकलदिग्मण्डलमवलोक्य विश्रामस्थानमपश्यन् निलीयमानश्च पयसि निधनमुपगत इति ॥ ७६ ॥
एते च यत् कुर्वन्ति तदाहते जात्यहेतुदृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्ति ॥ ७७॥ त एवं सातादिगुरुका जात्यहेतुदृष्टान्तसिद्धादिगुणोपेतमपि सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्तीति सम्बन्धः।। तत्र हेतवश्च-साध्याविनाभाविन उत्पत्तिमत्त्वादयः, दृष्टान्ताश्च-अङ्गल्यादयः साध्यस्य उपमाभूताः, जात्याश्च-ते | निष्कृत्रिमत्वेन प्रधाना हेतुदृष्टान्ताश्च जात्यहेतुदृष्टान्ताः तैः सिद्धं-निष्पन्नं प्रतिष्ठितमव्याहतमित्यर्थः । यथा सन्ति जीवादयः पदार्थी उत्पत्तिमत्त्वाद्विनाशवत्त्वास्थितिमत्त्वाच्च यथाऽङ्गल्यादयो, यथाऽङ्गुलिरेकस्मिन्नेव काले मूर्तत्वेनावस्थिता वक्रत्वेन विनष्टा ऋजुत्वेन तत्पन्नेत्युत्पाद १ स्थिति २ व्यय ३ वती वर्तते तथाऽऽत्मादयोऽपि सर्वे पदार्था इति । तथा अविरुद्धं-सङ्गत विरोधाभावात् , तथा न विद्यते जरा यत्र तदजरं, तथा अभयं करोतीत्यभयकरमित्येवं विशेषणचतुष्कोपेतं, किमत आह
Jain Education
a
l
For Private & Personel Use Only
Mainelibrary.org
OM