________________
गौरवदोषाः
प्रशमरतिः सर्वज्ञवागेव-जिनवचनमेव रसायनं-परमौषधं तत्तथा। अत्र भावना-यथा रसायनं हेतुदृष्टान्तसिद्धं तथाऽविरुद्धं सम्यग विधिहारि. वृत्तिः नोपयुज्यमानं वपुरजरं करोति, वलीपलितविवर्जितमित्यर्थः। तथा अभयकर-क्षुद्रोपद्रवादिभीतिरहितं, सर्वज्ञवागपि हेतु
दृष्टान्तसिद्धाऽविरुद्धा सती सम्यगासेविता जरामरणभयापहंत्री भवति ॥ ७७॥
अथैनमेवार्थ दृष्टान्तेन समर्थयतेयद्बत् कश्चित् क्षीरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कटुकम् ॥ ७८॥
यद्वत्-यथा कश्चित्-कोऽपि क्षीरं-दुग्धं मन्यते कटुकमिति संटङ्कः । कीदृशम् ?-मधुना-क्षौद्रेण युक्ता शर्करामत्स्यण्डी तया सुसंस्कृतमिति-कथितं कृतानेकसुगन्धिसंस्कारं वा । तथा हृद्य-हृदयेष्टं । कुत इत्याह-पित्सार्दितेन्द्रिय६त्वात्-पित्तव्याप्तकरणत्वात् वितथमतिः-विपरीतबुद्धिः मन्यते-जानाति कटुकम्-अमृष्टं मधुरमपि सदिति ॥७८॥ _____ अथ दृष्टान्तेन दाान्तिकमर्थ समीकुर्वन्नार्याद्वितयमाह
तद्वनिश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्वेषोदयोवृत्ताः ॥७९॥ 8 जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीवाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥८॥
तद्वत्-तथा हितमप्यर्थ न पश्यन्तीति सम्बन्धः। कीदृशमर्थम् ?-निश्चयमधुरं-परिणामसुन्दरं, तथा अभिहितं-प्रतिपादितं ढौकितमित्यर्थः । कै?-सद्भिः-सत्पुरुषः । कया ?-अनुकम्पया-कृपया । तथा पथ्यं योग्यं, तथा तथ्यं-सत्यं । किं कुर्वाणास्ते ?-अवमन्यमाना-अनाद्रियमाणाः । कीदृशाः ?-रागद्वेषोदयेनोद्वत्ताः-स्वच्छन्दचारिण इति ॥ ७९ ॥ पुनः
॥१५॥
Jain Education
TEtional
For Private & Personel Use Only
Sujainelibrary.org