________________
Jain Education
कीदृशाः ? - जात्याद्यष्टमदस्थानान्धाः, तत्र जातिर्मातृसमुत्था कुलं पितृसमुद्भवं रूपं - सुशरीराकृतिः बलं - शरीरप्राणः लाभः - प्रार्थितार्थप्राप्तिः बुद्धिः - औत्पादिकीप्रभृतिमतिः, सा चैवम् - "उप्पत्तिया वेणइया, कम्मया परिणामिया । वुद्धी चउविहा वुत्ता, पंचमा नोवल भए ॥ १ ॥” इति । वाल्लभ्यकं - प्रियत्वं श्रुतं - आगमस्तेषां तान्येव वा मदो - गर्वस्तेनान्धा - हिताहितवस्तुविचारादर्शनालोचन विकलास्ते तथा । तथा क्लीवा - अधृष्टाः । कस्मिन्नित्याह – परत्र च - परभवे इह च - अत्र जन्मनि हितमप्यर्थं न पश्यन्ति - उपकारकं सर्वज्ञवागुरूपं नावलोकयन्तीति ॥ ८० ॥
॥ इति धारणार्थाधिकारद्वयम् ॥
अथैनामेवानन्तरोक्तमदस्थानप्रतिपादिकामार्यां विवरीषुर्जातिमदाद्यष्टमदस्थान व्युदासमार्याषोडशकेन विभणिषुः प्रथमं
जातिमदत्यागमाह
ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ? ॥ ८१ ॥ नैकान् जातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान् सत्त्वाः । कर्मवशाद् गच्छन्त्यत्र कस्य का शाश्वती जातिः ? ॥८२॥ ज्ञात्वा - विज्ञाय भवपरिवर्ते - नारको भूत्वोद्धृत्य तिर्यग् मनुष्यो वा भवतीत्यादिपरिभ्रमणरूपे जातीनाम् - एकेन्द्रियजातिप्रभृतीनां कोटिशतसहस्रेषु मध्ये हीनोत्तममध्यत्वं - जघन्य प्रधानमध्यवर्तिभावं ज्ञात्वेति सम्बन्धः । ततः किं ? - को
For Private & Personal Use Only
गौरवदोषाः
Jainelibrary.org