________________
प्रशमरतिः हारि. वृत्तिः
॥ १६ ॥
Jain Education
जातिमदं बुधः कुर्यादिति व्यक्तमिति ॥ ८१ ॥ गच्छन्ति यान्तीति क्रिया । के ? - सत्त्वाः । कान् ? - नैकान्- प्रचुरान् । जातिविशेषान् - एकेन्द्रियजात्यादि । कीदृशान् ? - इन्द्रियनिर्वृत्तिः - करणनिष्पत्तिः पूर्व-आद्यं येषां ते तथा तान् । शेषाद्वा कप्रत्ययः । कुतः ? - कर्मवशात् - स्वकीयादृष्टपरतन्त्रतया गच्छन्तीति योजितमेव । अत्र-भवे कस्य सत्त्वस्य का?, न काचित् शाश्वती - स्थिरा जातिरिति ॥ ८२ ॥
अथ कुलमदव्युदासार्थमाह
रूपबलश्रुतिमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि ननु कुलमानः परित्याज्यः ॥८३॥ यस्याशुद्धं शीलं प्रयोजनं तस्य किं कुलमदेन ? | स्वगुणाभ्यलंकृतस्य हि किं शीलवतः कुलमदेन ? ॥ ८४ ॥ रूपादिभिः पूर्वोक्तैः षड्डिर्विवर्जितांस्तथा तेन प्रकारेण अत्यन्तकारुण्यस्वरूपेण दृष्ट्वा - अवलोक्य । कीदृशानपि ? - विपुल - कुलोत्पन्नानपि - विस्तीर्णान्वयजातानपि ननु-निश्चयेन कुलमानः - अन्वयाहङ्कारः परित्याज्यः - परिहरणीय इति ॥ ८३ ॥ अपिच—यस्य जीवस्याशुद्धम् - असच्छीलं असदनुष्ठानं प्रयोजनं तस्य किं कुलमदेनेति व्यक्तम् । पक्षान्तरमाह — स्वगुणैः शीलपरिपालन रूपैरभ्यलंकृतो - भूषितस्तस्य हि यस्मात्किं शीलवतः कुलमदेनेति ॥ ८४ ॥
अथ रूपमदपरिहारमाह
कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशोऽस्ति रूपस्य ॥८५॥ नित्यपरिशीलनीये त्वङ्मांसाच्छादिते कलुषपूर्णे । निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ? ॥ ८६ ॥
For Private & Personal Use Only
मदव्युदासः
॥ १६ ॥
Jainelibrary.org