________________
को मदावकाशोऽस्ति ?; न कोऽपि गर्वप्रसरो. विद्यते । कस्य सम्बन्धी ?-रूपस्य । कीदृशस्य ?-शुक्रशोणिताभ्यां- मदव्युदासः | पितृमातृजुगुप्सनीयशरीरावयवाभ्यां सकाशात् समुद्भवस्य-प्रादुर्भूतस्य । तथा सततम्-अनवरतं चयोपचयिकस्य-चित्यप-18 चितिधर्मकस्य । तथा रोगजरयोः पूर्वोक्तयोरपाश्रयिंणः-स्थानस्येति ॥ ८५ ॥ नित्यपरिशीलनीये-सदा संस्कर्तव्ये त्वग्मांसाच्छादिते-चर्मपिशितस्थगिते कलुषपूर्णे-अशुच्यादिवृते निश्चयविनाशधर्मिणि-एकान्तविनश्वरस्वरूपे शरीराकृतिलक्षणे, एवं पूर्वोक्तविशेषणे मदकारणं- दर्पहेतुः किं स्यादिति ॥८६॥
अथ बलमदत्यागमाहबलसमुदितोऽपि यस्मान्नरःक्षणेन विबलत्वमुपयाति । बलहीनोऽप्यथ बलवान् संस्कारवशात् पुनर्भवति ॥८७॥ तस्मादनियतभावं बलस्य सम्यग विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि ॥ ८८॥
बलसमुदितोऽपि-प्राणसमुपपन्नोऽपि यस्मान्नरः क्षणेन-स्वल्पकालेन विबलत्वं-प्राणहीनतामुपयाति-व्रजति, तथा बलहीनोऽपि च बलवान् भवतीति सम्बन्धः। कुतः?-संस्कारवशात्-प्रणीताहाराभ्यवहारसामर्थ्याद्वीर्यान्तरायक्षयोपशमविशेषाद्वेति | ॥४जी तस्मादनियतभावं-कादाचित्कत्वं बलस्य सम्यग् विभाव्य-पर्यालोच्य । कुतः ?-बुद्धिबलात्-मतिसामर्थ्यात् । तथा मृत्युबले च-मरणप्राणे अबलतां विभाव्येति योगः। अतो मदं न कुर्यादलेनापीति ॥ ८८॥ . अथ लाभमदत्यागमाहउदयोपशमनिमित्तौ लाभालाभावनित्यको मत्वा । नालामे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥ ८९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org