________________
प्रशमरतिः हारि. वृत्तिः
॥ १७ ॥
Jain Education
परशक्त्यभिप्रसादात्मकेन किंचिदुपयोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥ ९० ॥ उदयो - लाभान्तरायस्याभवनं, उपशमशब्देनावयवे समुदायोपचारात् क्षयोपशमो लभ्यते, तत्र कियतो लाभान्तरायस्य क्षयः कियतस्तूपशमः, तत उदयश्च क्षयोपशमश्च २ तौ निमित्तं कारणं ययोस्तौ तथा, उदयनिमित्तक्षयोपशमनिमित्ताविति ( ग्रं० ५०० ) तत्र कावेवंविधावित्याह- लाभालाभाविति पदव्यत्ययादलाभलाभौ, अयमर्थः-अलाभो लाभान्तरायोदय| निमित्तो लाभश्च तस्यैव क्षयोपशमनिमित्त इति पदद्वयस्य विपर्ययः, तौ अनित्यकौ - कादाचित्कौ मत्वा - ज्ञात्वा किं कार्यमित्याह - नालाभे वैक्लव्यं - दैन्यं न च लाभे विस्मयो - हर्षः, कार्य इति उभयत्र योज्यमिति ॥ ८९ ॥ शक्तिश्च अभिप्रसादश्च शक्त्यभिप्रसादौ परस्य सम्बन्धिनौ शक्त्यभिप्रसादौ तौ तथा तावेवात्मा स्वरूपं यस्य स तथा तेन, लाभेन वक्ष्यमाणेनेतियोगः । तत्र परो - दाता तस्य दानान्तरायक्ष योपशमजनिता शक्तिः अभिप्रसादस्तु तस्यैव दातुर्यद्यभिप्रसन्नं चेतो भवति साधून् प्रति यदुत मुक्तिसाधका एते तत एतेभ्यो दत्तं बहुफलं भवतीति । तथा किंचिदुपयोगयोग्येन - स्तोककालमुपयोगसाधकेन, न पुनराजीवितान्तं विपुलेनापि - विस्तीर्णेनापि यतिवृषाः - साधुप्रधानाः लाभेन मदं न गच्छन्ति ॥ ९० ॥
बुद्धिमदत्यागमाह
ग्रहणोद्राहणनवकृतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ९१ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥ ९२ ॥ कथं - केन प्रकारेण यान्ति । के ? - सांप्रतपुरुषाः । कं ? - मदं । कया ? - स्वबुद्ध्या । किं कृत्वा ? - श्रुत्वा । किं तत् ? -
For Private & Personal Use Only
मदद्व्युदासः
॥ १७ ॥
jainelibrary.org