________________
SHARMASSACRACT
ज्ञानातिशयस्य सागरानन्त्यं । केषां?-पूर्वपुरुषसिंहानां। केषु विषये-बुद्ध्यङ्गविधिविकल्पेषु, किंविधेषु ?-अनन्तपर्यायवृद्धेष्विति
मदव्युदासः क्रियाकारकघटना । तत्र ग्रहणम्-उपाध्यायादिभिरक्तस्य सूत्रादेरुपादानं उदाहणं-प्रमाणोपन्यसनं नवकृतिः-नूतनकाव्यकरणं विचारणं-जीवादिपदार्थविषयं अवधारणम्-अभिधेयनिर्णयस्ततो ग्रहणादिपञ्चपदानां द्वन्द्वः। तानि आदीनि येषां विधिविकल्पानां ते तथा तेषु, बुद्धीनां पूर्वोक्तस्वरूपाणां चतसृणां अङ्गानि-शरीराणि । “सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हेइ ईहए वावि । तत्तो अपोहए वा धारेइ करेइ वा सवं ॥७॥" एवंरूपाणि तेषां विधयः-कारणानि तेषां विकल्पा-भेदास्तेषु । तथा किंविशिष्टेषु ?-अनन्ता-बहवः पर्यायाः-स्वरेतरस्य विशेषास्ते वृद्धा-वृद्धिमुपगता येषु ते तथा तेष्विति, पूर्व-17 | पुरुषा-गौतमादयस्त एव सिंहा इव सिंहाः शौर्येणोपमानं परीषहकषायादिकुरङ्गनिहननात् पूर्वपुरुषसिंहास्तेषां विज्ञानातिशयःअवबोधप्रकर्षः स एव सागरः-सिन्धुर्विस्तीर्णत्वात्तस्यानन्त्यं-बहुत्वं, अथवा विज्ञाने सति वैक्रियतेजोनिसर्गाकाशगमनसंभिन्नश्रोत्रादयोऽतिशयास्त एव सागर इति । शेषं तथैवेति ॥ ९१ ॥ ९२॥ वाल्लभ्यकमदत्याग उच्यतेद्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ? ॥१३॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ ९४॥ को मदस्तेन, यत्किम् ?-अवाप्यते-लभ्यते। किं तत् ?-वालभ्यकं-बल्लभता। किं कृत्वा?-कृत्वा-विधाय। किंवत्-बटुकर्मकं-कुत्सितं चटुकर्म चटुकर्मकं-कुत्सितं प्रियभाषणं "चटु चाटु प्रियं वाक्यं” इति वचनात् । कीदृशम् १-उपकारो
UCARRIAGRA
Jain Education
l
For Private & Personal Use Only
Mainelibrary.org
a ता