________________
प्रशमरतिः हारि. वृत्तिः ॥१८॥
निमित्तं यस्य तत्तथा तदेवोपकारनिमित्तक । कस्मात्?, आह-परजनस्य-गृहस्थादिलोकस्य । कैरिव ?-द्रमकैरिव-रङ्कवदिति दमदव्यदासः ॥९३॥ गर्व-दर्प यः कोऽपि विदध्यात्-कुर्यात् । केन?-वाल्लभ्यकेन । कीदृशेन?-परेषां-गृहस्थादीनां प्रसादः-तुष्टिः स आत्मा यस्य स तथा तेन, तं पुरुषं वाल्लभ्यकगर्वितं कर्मताऽऽपन्नं वाल्लभ्यकविगमे शोकसमुदयो-दैन्यसमूहः परामृशतिआश्लिष्यति, शोकेनासौ गृह्यत इत्यर्थः इति ॥ ९४ ॥ __ श्रुतमदव्युदासमार्याद्वयेनाहमाषतुषोपाख्यानं श्रुतपर्यायमरूपणं चैव । श्रुत्वाऽतिविस्मयकरं च विकरणं स्थूलभद्रमुनेः ॥ ९५॥ सम्पर्कोद्यममुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः ? ॥ ९६॥ मदः कथं कार्य इति द्वितीयार्यायां सम्बन्धः। किं कृत्वा ?-माषतुष इतिपदेन समयप्रसिद्धेनोपलक्षितः साधुस्तस्योपाख्यानंकथानकं तत्तथा । तस्य हि माषतुषसाधोः श्रुतरहितस्यापि निवृतिर्जातेति श्रुत्वेति योगः । तथा श्रुतस्य-आगमस्य पर्याया-भेदा यथा-कश्चिदेकार्थवादी कश्चिद्बह्वर्थवादी एकस्यैव सूत्रस्य, तेषां प्ररूपणा-वर्तना तां, चैवेति समुच्चये । श्रुत्वाआकर्ण्य तथाऽतिविस्मयकर-स्वाश्चर्यविधायकं । किं तत् ?-विकरणं च । चस्यात्र सम्बन्धः । विक्रियाकृतशेषश्रुतदाननिषेधमिति शेषः । श्रुत्वा । कस्य ?-स्थूलभद्रमुनेः । यथा तेन निजभगिन्या आत्मा सिंहकरणगर्वेण दर्शित इति ॥ ९५ ॥ सम्पर्कश्च-पण्डितसंसर्गः उद्यमश्च-प्रोत्साहस्तौ तथा ताभ्यां सुलभं-सुप्रापं । तथा चरणकरणयोः प्रसिद्धयोःसाधक-निर्वर्तक ।
तस्यायव सूत्रस्य, तेषां प्ररूपण सम्बन्धः । विक्रियातहात ॥ ५ ॥
AAAACARE
८॥
Jain Education in
For Private Personel Use Only
M
ainelibrary.org