________________
मदत्याग
RECRबल
किमेवंविधम् ?-श्रुतज्ञानं । ततस्तल्लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः । सर्वथा गर्वो न विधेयः । यत उक्तम्-"ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥” इति ॥९६ ॥
तदेवं प्रत्येकमार्याद्वयेनाष्टमदस्थानानां व्युदासमभिधाय सांप्रतं (तैः)सहितानामार्याद्वयेन फलमाहएतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्मादः खहृदयस्य संसारवृद्धिश्च ॥९७ ॥ जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥९८॥ एतेषु मदस्थानेषु निश्चये-परमार्थचिन्तायां न च गुणोऽस्ति कश्चिदपि ऐहिकादिः, केवलमुन्मादो भवति । कस्य ?स्वहृदयस्य । तथा संसारवृद्धिश्चेति सुगममिति ॥९७॥ तथा जात्याद्यष्टप्रकारेण मदेनोन्मत्तः-परवशः स तथा । पिशाचवत् सूचकत्वात्सूत्रस्य शुचिपिशाचाभिधानद्विजवद् भवति-जायते दुःखितो-दुःखभाक् इह-अत्रैव जन्मनि । कथानकं चैवं-यथा क्वापि स्थाने शुचिपिशाचाभिधो द्विजः, अत्र वसतामशुचिरेवेति मत्वा जनाकीर्णदेशमुत्सृज्य समुद्रवर्तिद्वीपमनुप्रविष्टः । तत्र चैको वणिक् भिन्नपोतः प्रथमतरं गत आस्ते । तत्र चेक्षुवाटाः प्रचुराः सन्ति । तद्रसपानात् केवलाद्गुडशकलानीव गुदमुखेन तेन निसृष्टानि पुरीषरूपाणि । तानि चालोक्य स चोक्षकः शुचिपिशाचश्चखाद । तृप्तश्चास्ते प्रत्यहं ।
दृष्टश्च कालान्तरेण हिण्डमानो वणिक, पृष्टश्च किमत्रागमनप्रयोजनम् ? । वणिजाऽभ्यधायि-पोतभङ्गादत्रायातः । पुनः ल पृष्टः कथं तव भुक्तियुक्तिः ?, वणिजोक्तं-इक्षुरसास्वादनेन । पुनरुक्तं-भवान् कथमायातः । तेनाप्युक्तं-जनाकीर्णेऽशुचि
रितिकृत्वाऽत्रायातः, अपर उवाच-कथमाहारमन्तरेणात्र स्थीयते । ततस्तेनाभाणि-प्रत्यहमिक्षुफलानि भक्षयंस्तिष्ठामि ।
Jain Education in
final
For Private Personel Use Only
|
Mainelibrary.org