________________
प्रशमरतिः हारि वृत्तिः ॥१९॥
BESTSESS
मदफलं
HOSPHORUS
ततश्चाश्चर्यसम्पन्नेन तेनोक्तं-ममापि तानि दर्शयेति । ततो वणिनिसृष्टानि पुरीषाणि दर्शितवान् । ततो विहस्य वणिजोतं-ममेदं पुरीष भवता प्रत्यहं भक्ष्यते । अहो शोभनः शुचिवादस्तव । ततश्चोद्विग्नमानसस्तस्मादपि स्थानाद्विनिर्गतो द्वीपान्तरं गतः। तत्रापि वल्गुल्यादिचूषितानि फलानि भक्षितवान् । एवं यत्र यत्र याति तत्र तत्र दुःखभाक जात इति । तथा परभवे च निःसंशयं जात्यादिहीनतां लभते-प्राप्नोतीति ॥९८॥ ततश्च-.
. सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च सन्त्याज्यः॥१९॥ सर्वमदस्थानानां पूर्वोक्तस्वरूपाणां मूलोद्घातार्थिना-आदित एव विनाशमभिलषता सदा-सर्वदा यतिना-साधुना। किं कार्यमित्याह-आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः इति प्रकटमिति ॥ ९९ ॥ . किमेतौ संत्याज्यावित्याह
परपरिभवपरिवादादात्मोत्कर्षाच बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ १०॥ | परिभवो-न्यक्कारः परिवादः-अवर्णवादभाषणं ततः समाहारद्वन्द्वः । परेषाम्-आत्मव्यतिरिक्तानां परिभवपरिवादं २
ति तस्मात्, तथा आत्मोत्कर्षात्-स्वबहुमानाच्च बध्यते कर्म । कीदृशम् ?-नीचैर्गोत्रं-सप्तमं कर्म, इदं च मुख्यवृत्त्योकं, गौणवृत्त्या त्वन्यान्यपि यथाऽनुरूपं बध्यन्ते । किमेकस्मिन्नेव भवे ?, नेत्याह-प्रतिभवं-प्रतिजन्म यथा भवति । पुनः कीदृशम् ?-अनेकाभिः-प्रभूताभिः भवानां-जन्मनां कोटीभिः-संख्याविशेषैर्दुर्मोच-दुस्त्यजमिति ॥१०॥
॥१९॥
Jain Education
anal
For Private & Personal Use Only
P
ujainelibrary.org