SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ वैराग्यहेतुः ततश्च किं भवतिकर्मोदयनिवृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥ १०१॥ कर्मणः-क्रमाद्गोत्रस्य उदयेन-नीचैस्तथोच्चैस्तथा मध्यमतया च विपाकेन निवृत्तं-निष्पन्नं यत्तत् तथेति । किं तदेवंविधमित्याह-हीनोत्तममध्यममिति समाहारद्वन्द्वः तस्य भावस्तत्त्वं, त्वप्रत्ययो लुप्तो द्रष्टव्यः । केषां ?-मनुष्याणां, भवतीत्यत्रोत्तरवाक्ये च शेषो दृश्यः। तथा तद्विधमेव-तत्प्रकारमेव । केषाम्?-तिरश्चाम्-एकेन्द्रियादीनां च, हीनत्वादीति योज्यम् । कथंभूतमित्याह-योनिः-उत्पत्तिस्थानं तस्या विशेषाः,तिरश्चामेकद्वित्रिचतुष्पञ्चेन्द्रियाख्याः मनुष्याणां तु सम्मूर्छजगर्भजरूपाः, उपलक्षणत्वाद्देवनारकाणां च, तेषां अंतरम्-अन्यत्वं तेन विभक्तं-कृतविभागमिति समासः ॥ १०१॥ तथा अपरमपि वैराग्यनिमित्तमाख्यातम्देशकुलदेहविज्ञानायुबलभोगभूतिवैषम्यम् । दृष्टा कथमिह विदुषां भवसंसारे रतिर्भवति? ॥१०२॥ अपरिगणितगुणदोषः स्वपरोभयबाधको भवति यस्मात् । पश्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्धः॥१३॥ तस्माद्रागद्वेषत्यागे पश्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोयत्नेन घटितव्यम् ॥१०४॥ तत्कथमनिष्टविषयाभिकांक्षिणा भोगिना वियोगो वै । सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः ॥१०५॥ देशादीनामष्टानां पदानां कृतद्वन्द्वसमासानां सुबोधानां वैषम्य-विसदृशतां शुभाशुभतामित्यर्थों दृष्ट्वा-अवलोक्य कथमिह विदुषां भवसंसारे-नरकादिसंसृतौ रतिर्भवति ?, न भवत्येवेत्यर्थः॥१०२॥ तथा-अपरिगणिता-अनादृता गुणदोषा. येन Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy