________________
प्रशमरतिःस तथा । ईदृशः सन् किमित्यत आह-स्वश्च-आत्मा परश्च-अन्यस्तौ तथा तावेवोभयं तस्य बाधकः-पीडाकारी भवति || वैराग्यहेतु: हारि वृत्ति यस्मात्कारणात् , तथा पञ्चेन्द्रियवलेन विबलो-विगतबलः स तथा । पञ्चेन्द्रियाणि जेतुं न शक्त इत्यर्थः । तथा रागद्वेषयोः
पूर्वोक्तयोरुदयः-अनुभवनं तेन निबद्धो-नियन्त्रितः स तथा । सदोत्कृष्टरागद्वेष इत्यर्थः ॥१०३॥ यस्मादित्युक्तं तस्मात॥२०॥
ततः कारणात् घटितव्यं-घटना कार्या । व?-रागद्वेषत्यागे तथा पञ्चेन्द्रियप्रशमने च । किमर्थम् ?-शुभपरिणामावस्थितिहेतोः-शुभपरिणत्यवस्थाननिमित्तं इति ॥ १०४ ॥ तत्कथं घटितव्यमिति पूर्वोक्कार्यया संबन्धः ( ० ६०० ) केन?-भोगिना-भोगासकेन । कीदृशेन?-अनिष्टाश्च ते वक्ष्यमाणन्यायेन विषयाश्च प्रसिद्धस्वरूपास्ते तथा तानधिकांक्षति-1 अभिलषति तेनेत्येका पृच्छा । कथमात्यन्तिको वियोगो-विरहः स्यादेभिः सहेति शेषोऽत्र, एतत्तरण इति द्वितीया पृच्छा। तत्रोत्तरमाह-तेन भोगिना कीदृशेन ?-सुष्ठ व्याकुलितहृदयेनापि-बाढं व्यग्रचित्तेनापि सता निश्चयेन-एकान्तेन, किम् ?आगमः-सिद्धान्तः कार्यः-अभ्यसितव्यः, ततस्तेषामात्यन्तिकः प्रलयः स्यादिति । यद्वा तत् कथं वियोगः स्यादिति शेषः।। कयोः ?-रागद्वेषयोः प्रक्रमगम्ययोर्दै पूर्ववदिति प्रश्ने निर्वचनमाह-आगमः कार्य इति पूर्ववत् । केन कार्यः?-भोगिना । कीदृशेन ?-अनिष्टविषयाभिकाविणा । तथा सुव्याकुलहृदयेनापि निश्चयेनेति पदानां व्याख्या पूर्ववदिति । अन्ये त्वेवं
।। २० ॥ |अनिष्टविषयाभिकानिणां भोगिनामिति पाठान्तरं व्याख्यान्ति यथा इतिविशेषणानां जीवानां सुव्याकुलहृदयेन सह अपिः। पूरणे विरहस्तत्र तस्मात् कथं स्यादिति प्रश्ने प्रत्युत्तरं निश्चयेनागमः कार्यः ॥१०५॥
ॐॐॐ
Join Education
For Private
Personal Use Only
ahelibrary.org