SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विषयाणा मनिष्टता परितुष्टिकारका विपसंयुक्तं मु पि दुःखावा. SAMSUNSAHASREMARKAR कथं पुनरनिष्टा विषया इत्याहआदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः। निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः॥१०६॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१०७॥ यदच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥१०८॥ तदुपचारसंभृतरम्यकरागरससेविता विषयाः। भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥१०९॥ आदौ-प्रथमतः कुतूहलादुत्सुकतया अत्यभ्युदया-उत्सवभूता भवन्ति इति द्वितीयायां सम्बन्धः। मध्ये-विषयप्राप्ती शृङ्गारहास्याभ्यां-वेषाभरणसमस्तशरीरावयवस्पर्शनप्रहासाभ्यां दीप्तरसा-अत्युत्कटानुभवाः, सैव क्रिया पूर्वपदेषु योज्या। निकषे-संयोगोत्तरकालं विषयाः-स्पर्शादयो बीभत्सकरुणलज्जाभयानि कृतद्वन्द्वानि तानि तथा तै रसैः प्राया-बहुलास्ते तथा, तत्र बीभत्सो-विरूपता तथाविधाङ्गदर्शनात् करुणो निर्दयदन्तनखक्षतावलोकनात् लज्जा झगिति वस्त्रग्रहणात् भयं तु मा केनचिदृष्टः स्यादिति ॥१०६॥ यद्यप्यत्यभ्युदया एते तथापि पर्यन्तेऽतिदारुणा इति दृष्टान्तेन विशदयन्नाह-यद्यपीत्याधि ६ स्पष्टार्थ, किंपाकफलान्यादौ मृष्टान्यन्ते मारणात्मकानि तेषामदन-भक्षणं तद्वद्भवन्ति । पश्चादतिदुरन्ता इति च व्यक्तमिति ॥ १०७॥ अथ निदर्शनान्तरमाह-'यद्वेत्यादि, यद-यथा शाकं-तीमनमष्टादशं यस्य तत्तथा । किं तदित्याहअन्नं-आहारः, अष्टादश भेदास्त्वेते-"सूवो १ यणो २ जवन्नं ३ तिन्नि य मंसाणि ६ गोरसो ७ जूसो ८। भ(द)क्खा ९ गुललावणिया १० मूलफला ११ हरियगो १२ डाओ १३ ॥१॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं Jain Education na For Private & Personel Use Only Khjainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy