SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः SCAP विषयाणामनिष्टता ॥२१॥ चेव १७। अट्ठारसमं सागं १८ निरुवहओ लोइओ पिण्डो ॥२॥” तथा बहूनि-अनेकानि भक्ष्याणि-मोदकादीनि पेयानिपानकविशेषा विद्यन्ते यत्र तद्बहुभक्ष्यपेयवत् , तथा स्वादु-मधुरं, एवंविधमपि विषसंयुक्तं-गरमिश्रं भुक्तम्-अभ्यवहृतं सत् विपाककाले-परिणतिप्रस्तावे, किमित्याह-विनाशयति-मारयति, भोक्तारमिति शेष इति ॥१०८॥ दाष्टोन्तिकमाह-तद्वत्तथा उपचारेण-चटुकर्मविनयप्रतिपत्त्यादिना संहृतः-पिण्डीकृतः संभृतो वा-बह्वीकृतो रम्यको-रमणीयः स चासौ रागश्चप्रीतिस्तस्य रसः-अतिशयानुभवनं तेन सेविता-भुक्ताः, क एवंविधा इत्याह-विषयाः-शब्दादयः, एवंभूताः सन्तः । कासु कीदृशा इत्याह-भवशतानां-जन्मशतानां अनन्तानां परम्पराः-पद्धतयस्तासु। अपिशब्दः सम्भावने । दुःखस्य-असातस्य विपाकः-अनुभवनं तस्य-अनुबन्धः सातत्यं तत्करा-विधायकास्ते तथा, अत्रुटितदुःखार्पका भवन्तीति शेष इति ॥ १०९॥ | अथ विषयासक्तानामुपायेन शिक्षामाह| अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान् मानुषान् गणयेत्॥११०॥ | अपेव्यत्ययेन सम्बन्धः। ततः पश्यतामपि समक्ष-प्रत्यक्षं मरणमिति सम्बन्धः । कीदृशम् ?-नियतं देवनारकाणां, तथा अनियतं तिर्यग्मनुष्याणां, पदे पदे-स्थाने स्थाने, अथवा नियतं-सर्वकालमेवावीचीमरणरूपं, समये समये आयुःक्षयात्, येषां विषयेषु रतिर्भवति-स्वास्थ्यं जायते न तान् मानुषान् गणयेत् कुशलः।तिर्यञ्च एव हि ते, निर्बुद्धिकत्वादिति ॥११०॥ तेषामेवोपदेशमाहविषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः। द्विगुणोऽपिच नित्यमनुग्रहोऽनवद्यश्च संचिन्त्यः ॥१११॥ ॥२१॥ Jain Education Khanal For Private Personel Use Only R jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy