SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ विषयनियमः SAGARSHSAASARAM *I विषयेषु-शब्दादिषु परिणामः-अध्यवसायस्तस्य नियमो-निवृत्तिः सोऽनुप्रेक्ष्यः-पर्यालोचनीयः, कर्तव्य इति तात्प यम् ।जीवेनेति शेषः। केषु विषयेषु?-मनसोऽनुकूलविषयेषु, विषयाधारत्वाद्विषयाः-स्यादयस्तेष्वित्यर्थः । अर्थवशेन विभक्तिपरिणामात् तत्र विषयपरिणामनियमे किम् ?-अनुग्रहो-गुणयोगो नित्यं संचिन्त्यः-परिभावनीय इति योगः। कीदृशः?द्विगुणो-द्वाभ्यां लोकालोकाकाशाभ्यां गुण्यत इति द्विगुणोऽनन्तगुण इत्यर्थः । तथा अनवद्यश्च । अपिचेत्यभ्युच्चय इति । अन्ये त्याहुः-विषयाणां परिणामः-शुभानामशुभत्वेनाशुभानां शुभत्वेन भवनं तस्मिन् सति नियमो न मयैते भोक्तव्या इत्येवंरूपोऽनुप्रेक्ष्यः-अनुप्रेक्षणीयः, कर्तव्य इत्यर्थः । इति योगः। केषु केषु विषयेषु नियमः?-मनोऽनुकूलविषयेषु । तत्र च विषयपरिणामनियमे सत्यनुग्रहश्च द्विगुणोऽनवद्यः संचिन्त्यः-संचिन्तनीय इति ॥इति मदस्थानाधिकारः॥ इत्थं शिक्षितोऽप्यात्मा येषां शिक्षा न गृह्णाति तैस्तस्य यद्विधेयं तदाहइति गुणदोषविपर्यासदर्शनाद्विषयमूञ्छितो ह्यात्मा । भवपरिवर्तन भीरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥ इति-इत्थं पूर्वोक्तन्यायेन गुणाश्च दोषाश्च गुणदोषाः तेषु ज्ञातेष्वपि विपर्यासो-गुणान् दोषरूपेण पश्यति दोषांश्च गुणरूपेणेति तस्य दर्शनं तस्मात् विषयमूर्छितः-तन्मयतां गत आत्मा स्वः परिरक्ष्यः-परिपालनीय इत्यन्तपदेन सम्बन्धः । कैः?-भवपरिवर्तनभीरुभिः-संसारमरणबिभ्यद्भिः। किं कृत्वा?-अवेक्ष्य-ज्ञात्वा । कं?-आचार-प्रथमानार्थ, हि-स्फुटमिति ॥ ११२ ॥ रक्षाहेतः 804-NCR Jain Education in For Private & Personal Use Only S nelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy