________________
प्रशमरतिः हारि. वृत्तिः
॥ २२ ॥
Jain Education In
आचारस्तु पञ्चघेति दर्शयति
सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचारः समधिगम्यः ॥११३॥ सम्यक्त्वादि पञ्च पदानि सुबोधानि कृतद्वन्द्वसमासानि तान्यात्मा - स्वरूपं यस्य स तथा जिनैः प्रोक्तः पञ्चविधःपञ्चप्रकारोऽयं - पूर्वोक्तो विधिवद् - यथावत् । क्रियाविशेषणम् । साध्वाचारः - अहोरात्राभ्यन्तरेऽनुष्ठेयः क्रियाकलापः समधिगम्यो-विज्ञेय इति ॥ ११३ ॥
एवं सामान्यतः प्रथमाङ्गार्थमाश्रित्य पश्चधाऽऽचार उक्तः, अथ तस्यैवाध्ययनान्याश्रित्य बहुविधमाचारं विभणिषुस्तावत्तस्य प्रथमश्रुतस्कन्धे नवाध्ययनानि सन्तीति तान्याश्रित्य नवविधत्वमार्याद्वयेनाह -
षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः । शीतोष्णादिपरीषह विजयः सम्यक्त्वमविकरूप्यम् ॥ ११४॥ संसारादुद्वेगः क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगस्तपोविधिर्योषितां त्यागः ॥ ११५ ॥ षड्जीवकाययतना कार्येति शेषः । साधुनेति सर्वत्र प्रक्रम इति । शस्त्रपरिज्ञाख्ये प्रथमेऽध्ययन उक्तम् । तथा लोकेगृहस्थजने जातो लौकिकः स चासौ सन्तानश्च पितृपितामहपरम्परा तस्य गौरवम् - अभ्युत्थानादि तस्य त्यागः - परिहारः स तथा कार्य इति शेषः, इति लोकविजयाख्ये द्वितीयेऽध्ययने उक्तम् । तथा शीतोष्णादिपरीषहः, आदिशब्दस्य प्रकारवचनार्थत्वात् द्वाविंशतिपरीषहा ग्राह्यास्तेषां विजयः - सहनेनाभिभवनं यः सः तथा, शीतोष्णाख्ये तृतीयेऽध्ययने भणितमिदमिति । तथा सम्यक्त्वमविकम्प्यम् - अविचलं धार्य इति चतुर्थे सम्यक्त्वाख्येऽध्ययने उक्तं इति ॥ ११४ ॥ संसारादुद्वेगः
For Private & Personal Use Only
आचारां
गार्थः
॥ २२ ॥
ainelibrary.org