SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आचारांगार्थः कार्य इति लोकविजयाख्ये द्वितीयनाम्ना आवन्तीनामकेऽध्ययने प्रतिपादितं । तथा क्षपणोपायश्च, केषां?-कर्मणां, निपुणः-I सूक्ष्मोऽभिधीयत इति धूताख्ये षष्ठेऽध्ययने उक्तम् । तथा वैयावृत्त्योद्योगः-गुर्वादीनां भक्कानयनादिक्रियायामुद्यम इति | महापरिज्ञाख्ये सप्तमेऽध्ययने भणितं । तपोविधिरिति मोक्षाख्येऽष्टमे उक्तं । योषितां त्यागः-स्त्रीपरिहार इत्युपधानश्रुताख्ये नवमेऽध्ययने उकं इति । इति प्रथमश्रुतस्कन्धः॥ सांप्रतं द्वितीये श्रुतस्कन्धे षोडशाध्ययनात्मकेऽध्ययनस्वरूपमार्याद्वयेनाहविधिना भक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्या । ईर्याभाषाऽम्बरभाजनैषणावग्रहाः शुद्धाः ॥११६॥ स्थाननिषद्याद्युत्सर्गशब्दरूपक्रियापरान्योऽन्याः। पञ्चमहाव्रतदाढ्यं विमुक्तता सर्वसङ्गेभ्यः॥११७ ॥ साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः। सम्यगनुपाल्यमानो रागादीन मूलतो हन्ति ॥११८॥ आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र कचनाभिभवनं स्यात् ॥११९॥ ॥ विधिना भक्ष्यग्रहणं इति द्वितीयश्रुतस्कन्धे पिण्डैषणाध्ययने प्रथमे उक्त । तथा स्त्रीपशुपण्डकविवर्जिता शय्या ग्राह्येति शय्याख्ये द्वितीयेऽध्ययने उक्तं । द्वितीयश्रुतस्कन्धेऽध्ययने इति पदद्वयं इत ऊर्ध्व सर्वत्र द्रष्टव्यम् । तथा ईया-चंक्रमणं, भाषा तु जल्पनं, अम्बरभाजनयोः-वस्त्रपात्रयोरेषणा, तथाऽवग्रहो-देवेन्द्रराजगृहपतिसागारिकसाधर्मिकेभ्यो विहारादेमुत्कलापनं, तत एतेषां पञ्चानां पदानां द्वन्द्वसमासस्ते तथा। कीदृशाः?-शुद्धाः-शुद्धिमन्तः। शुद्धशब्दः पञ्चस्वपि योज्यः। | संप्रति यथासंख्यमध्ययनेषु योज्यते-ताशुद्धिर्याख्ये तृतीये ३ भाषाशुद्धिर्भाषाख्ये ४ अम्बरशुद्धिर्वस्वैपणाख्ये ५ lain Education memasonal For Private & Personel Use Only www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy