________________
प्रशमरतिः हारि. वृत्तिः
॥ २३ ॥
Jain Education
पात्रशुद्धिः पात्रैषणाख्ये ६ देवेन्द्राद्यवग्रहशुद्धिरवग्रहाख्ये ७ सप्तमे ॥ ११६ ॥ पूर्वोक्तार्यया द्वितीयश्रुतस्कन्धसप्ताध्ययनानि निजनिजनामान्युक्तानि । अत ऊर्ध्वं सप्ताध्ययनानि सप्तसप्तकनामानि भावना विमुक्तिश्चेति नवाध्ययनानि द्वितीयार्ययोच्यन्त इति सम्बन्धः । स्थानादिषु कृतद्वन्द्वसमासेषु विषये क्रिया सा तथा । कार्येति सर्वत्र शेषः । परा क्रिया, अन्योऽन्या क्रिया । प्राक्तनपदात् क्रियाशब्दः समस्तोऽप्यत्रापि पदद्वये योज्यः । तत्र स्थानं कायोत्सर्गादीनामालोचनीयमिति प्रथमसप्तकेऽष्ट| मेऽध्ययने, ८ निषद्या स्वाध्यायभूमिः ९ व्युत्सर्ग उच्चारादीनां १० शब्देषु श्रूयमाणेषु रागद्वेषत्यागः कार्यः ११ रूपेषु दृष्टिगो चरागतेषु रागद्वेषत्यागो विधेयः १२ तथा परा क्रिया - आत्मव्यतिरिक्तः परस्तस्य हस्तात् पादधावनादिका १३ तथा अन्योऽन्यक्रिया - परस्परं पादधावनादिका १४ तथा पञ्चमहात्रतेषु दाय-दृढता १५ तथा विमुक्तता कार्या । केभ्यः ? -सर्वसङ्गेभ्यः ॥ ११७ ॥ अस्यैव फलमाह - साध्वाचारः पूर्वोक्ताध्ययनरूपकथितस्वरूपः । खलु निश्चयेनायं प्रत्यक्षः । कथंभूतः ? - अष्टादशेति संख्या पदानां - सुप्तिङन्तानामर्थ समाप्तिरूपाणां वा सहस्राणि - संख्याविशेषाः, ततोऽष्टादश च तानि पदसहस्राणि च २ तैः परिपठितः - अधीतः, प्रतिपादित इत्यर्थः । तानि वा परिपठितानि यत्र स तथा । अष्टादशसहस्रप्रमाण | इत्यर्थः । किं करोतीत्याह- सम्यग् - अवितथं समनुपाल्यमानः - पठनादिभिरासेव्यमानो रागादीन् मूलतः - ( ग्रं० ७००) सर्वथा हन्ति - विनाशयतीति ॥ ११८ ॥ अस्यैवासेव्यमानस्य फलान्तरमाह - आचारस्य - आचाराङ्गस्याध्ययनानि - तदन्तर्गता अर्थपरिच्छेदविशेषास्तेषूक्तः स चासावर्थश्च - अभिधेयं तस्य भावना - वासना तया चरणं - चारित्रं व्रतादि तेन गुप्तं व्याप्तं
tional
For Private & Personal Use Only
आचारांगार्थः
॥ २३ ॥
w.jainelibrary.org