SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ संयमादिव्यग्रता SOSSEGOROCOLOSTOCK वासितमितियावत् हृदयं-चित्तं यस्य स तथा । तस्य किं भवतीत्याह-न-नैव तत्किमप्यस्ति-विद्यते कालविवरम्-अद्धाक्षण इत्यर्थः यत्र-यस्मिन् क्वचन-कस्मिंश्चित् कालविवरेऽभिभवनं-परिभवो, रागादिभिरिति शेषः, स्याद्-भवेदिति ॥ ११९॥ तथा आचारार्थव्यग्रस्य न कदाचिद्विमतिर्मुक्तिपरिपन्थिनी साधोर्भवतीत्याहपैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यावृतः कार्यः॥१२०॥ केनचिद्वणिजा मन्त्रबलेन पिशाचो वशीकृतः । पिशाचेनोक्तं-ममाज्ञादानमनवरतं च कार्य, परं यदैवाऽदेश न लप्स्ये तदैवाहं भवन्तं विनाशयिष्यामीति । प्रतिपन्नं वणिजा । आज्ञा च दत्ता गृहकरणधनधान्यानयनकनकादिविभूतिसम्पादनविषया । सम्पादिता च पिशाचेन । पुनश्चाज्ञा मार्गिता । वणिजा चाभिहितो-दीर्घवंशमानीय गृहाङ्गणे निखाय आरोहणमवरोहणं च कुर्वीथाः तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति इति । न चास्ति छिद्रं किंचिद्वणिजो यत्राभिभवः स्यादिति मन्यमानेन पिशाचेनोक्तं-छलितोऽहं त्वया, न तु मया त्वमिति । ततो मुत्कलय मां, कार्यकाले स्मरणीय इत्यभिधाय स्वस्थानमगमत्पिशाच इति । एवं साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं यत्र विषयेच्छायां प्रवृ. त्तिरिति । तथा द्वितीयं कुलवध्वाख्यानं कथ्यते-यथा काचित् कुलवधूर्देशान्तरगतभर्तृका । तया सखी भणिता-कंचन युवानमानय।तयोक्तम्-एवं करोमि धृत्या स्थेयमित्यभिधाय परिणामसुखदं सर्व शोभनमिति चिन्तयन्त्या श्वशुरस्य निवेदितं। ततस्तेन द्वितीयेऽहि निजभार्यया सह शब्दराटीकृता-यथा त्वं स्फेटयसि गृहं । तयोक्तं-न शक्नोम्यहं निर्वाहयितुं गृहमिदं, मुक्तोऽयं संप्रति मयाऽधिकारः। ततः श्वशुरेण सा वधूहन्यापारेषु नियुक्ता, सर्व गृहन्यापारं करोति, तत आकुलमनाः Jain Education a l For Private Personel Use Only jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy