________________
प्रशमरतिः हारि.वृत्तिः
विषयेच्छा
निरास:
॥२४॥
कष्टेन स्वप्तुं लभते, ततः श्वशुरेण प्रयुक्ता तत्सखी-भण मम वधूं यथा आनयामि युवानं । तया च सा प्रोक्ता सती प्राह- स्वप्तुमपि मे न कालोऽस्ति, किमनया दुष्टजनोचितया कथयेति ? । पैशाचिकमाख्यानं श्रुत्वा कुलवध्वा गोपायनं च श्रुत्वा अतः संयमयोगैरात्मा निरन्तरं व्यावृतः कार्य इत्युक्तम् ॥ १२०॥
इत्थं च विहितक्रियानुष्ठानव्यग्रः सन् ऐहिकभोगकारणेषु भावयेदनित्यतामित्याह| क्षणविपरिणामधर्मा मानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः॥१२१ ॥
क्षणेन-स्तोककालेनापि । विशब्दः कुत्सायां । विपरिणामः-कुत्सितपरिणतिर्धर्मः-स्वभावो येषां ते तथा, प्रीता अप्यप्रीता जायन्ते, स्तोककालेनान्यस्वभावा भवन्तीति भावना। केषाम् ?-मानां-मनुष्याणाम् । क एवंविधा भवन्ति?ऋद्धिसमुदया-विभूतिनिचयाः सर्वे-अशेषाः। सर्वे च शोकजनकाः-शोकहेतवः। तथा संयोगाः-सम्बन्धाः पुत्रपत्नीप्रभृतिभिर्विप्रयोगान्ता-विरहान्ता भवन्तीति शेष इति ॥ १२१॥ । यस्मादेवं तस्मान्न किंचिद्विषयसुखाभिलाषेणेति दर्शयन्नाह
भोगसुखैः किमनित्यैर्भयबहुलैः कांक्षितैः परायत्तः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१२२॥ ___भोगसुखैः-विषयसातैः किं?, न किंचित् । कीदृशैः?-पूर्वोक्तन्यायेन भयबहुलैः-भीतिप्रचुरैः, कांक्षितैः भोगसुखैः-विषयसातैरभिलषितैः परायत्तैः-स्यादिपदार्थसार्थाधीनः, तस्मात्तेष्वभिलाषमपहाय नित्यम्-आत्यन्तिकमभयम्-अविद्यमानभीतिकमात्मस्थं-स्वायत्तं । किमेवंविधमित्याह-प्रशमसुख-उपशमसातं,यत्तदेवंविधं तत् तत्र यतितव्यं-तस्मिन् यत्नः कार्य इति॥१२२॥
॥२४॥
Jain Education
a
l
For Private & Personel Use Only
Mainelibrary.org