SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शमिनो दुःखाभाव: तद्यत्नश्चेन्द्रियजययत्नेन भवतीति दर्शयतियावत् खविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो यत्नः॥१२३ ॥ अक्षसमूहस्य-इन्द्रियग्रामस्य स्वविषयलिप्सोः-शब्दादिगोचराभिलाषिणस्तुष्टौ-तोषे कर्तव्ये यावत् चेष्ट्यते-प्रयासः क्रियते तावत् तस्यैव जये-अक्षसमूहस्य निग्रहे वरतरं-शोभनतरं अशठं-मायारहितं यथा भवत्येवं कृतो-विहितो यत्नःआदर इति ॥ १२३ ॥ तथा प्रशमसुखं सुलभमित्याहयत् सर्वविषयकांक्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः ॥१२४ ॥ इष्टवियोगप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम् । प्राप्नोति यत् सरागोन संस्पृशति तद्विगतरागः॥१२५॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य। भयकुत्सानिरभिभवस्य यत् सुखं तत् कुतोऽन्येषाम् ११२६ प्राप्यते सरागेण । कीदृशं?-सर्वविषयकांक्षोद्भव-समस्तशब्दाद्यभिलाषावाप्युपपन्नं तदेव सुखमनन्ताभिः कोटिभिःसंख्याविशेषैर्गुणितम्-अभ्यस्तं मुधैव-मूल्येन विना लभते-प्राप्नोति, को ?-विगतराग इति ॥ १२४ ॥ तथाइष्टस्य-वल्लभवस्तुनो वियोगो-वियोजनं अप्रियसंप्रयोगः-अनिष्टप्राप्तिस्तयोः कांक्षा-चिन्ता तस्याः सकाशात् समु. जवा-उत्पत्तिर्यस्य तत्तथा । तदेवंविधं किं ?-दुःखं प्रामोति-लभते यत् सरागो न संस्पृशति वीतरागस्तदिति ॥ १२५ ॥ तथा-प्रशमिता वेदकषायाः पूर्वोकस्वरूपा यस्य जीवस्य स तथा तस्य, हास्यादिषु निभृतस्य-स्वस्थस्य, हास्यादि AALANA प्र.र.५ Jain Education For Private & Personel Use Only A ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy