________________
प्रशमरतिः | हारि. वृत्तिः
11| 34 ||
Jain Education
कारणेष्वपि तदकरणादित्यर्थः, भयकुत्साभ्यां - भीतिजुगुप्साभ्यां निरभिभवस्य - अनभिभूतस्य यत् सुखं प्रशान्तचेतसस्तत् कुतोऽन्येषामिति ॥ १२६ ॥
पुनर्विषयसुखात् प्रशमसुखस्योत्कर्षं निदर्शयन्नाह—
सम्यग्दृष्टिर्ज्ञानी ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥१२७॥ सम्यग्रदृष्टिर्ज्ञानीति व्यक्तं, ध्यानतपोबलयुतोऽपि सन् प्राणी अनुपशान्तस्तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते - प्राप्नोतीत्यतः प्रशमसुखायैव यतितव्यमिति ॥ १२७ ॥
भूयोऽप्यस्यैवोत्कर्षमाह -
नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १२८ ॥ स्पष्टमेव, किंतु राजराजः - चक्री, देवराजः - शक्र इति ॥ १२८ ॥
इदमेव पुनः स्पष्टयति
सन्त्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितलो भरोषमदनः सुखमास्ते निर्ज (व)रः साधुः ॥ १२९॥ सन्त्यज्य - मुक्त्वा लोकचिन्तां - स्वजनादिजनस्मृतिं सुखमास्ते - स्वस्थ स्तिष्ठति साधुरिति सम्बन्धः । कीदृश: ? - आत्मपरिज्ञानचिन्तनेऽभिरतः - परकार्यविमुखः, तथा जिताः - पराभूता रोपलोभमदना येन स तथा । अत एव निर्ज्वराः - अरोगाः,
For Private & Personal Use Only
शमिनः
सुखं
॥ २५ ॥
jainelibrary.org