SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ OSSESSUSTUS यतो रोपादयो ज्वर इव ज्वरस्तद्रहितत्वात् , यद्वा पाठान्तरे निर्गता जरा-हानिः, सा च प्रस्तावात् प्रशमामृतस्य यस्यासौ|४|लोकवाचानिर्जर इति ॥ १२९॥ विरोधः अनन्तरं 'सन्त्यज्य लोकचिन्ता'मित्युक्तं, तत् कथं परित्यक्तलोकचिन्तस्य साधोराहारादिभिनिर्वाहः?, ततः कथं सद्धमचरणवृत्तिः स्यादित्याशङ्याह___ या चेह लोकवार्ता शरीरवार्ता तपखिनां या च । सद्धर्मचरणवार्तानिमित्तकं तद्वयमपीष्टम् ॥ १३०॥ या काचित् , चकारौ परस्परं समुच्चयार्थों, इहलोकवार्ता-कृष्यादिभिर्लोकनिर्वाहः, इह वर्तनं वृत्तिः सैव स्वार्थिकाण्प्रत्लयाद्वार्ता । तथा या च शरीरवार्ता-देहसंधारणं । केषां ?-तपस्विनां-साधूनां, एतद्वयमपि सद्धर्मचरणवाानिमित्तकशोभनक्षान्त्यादिधर्मव्रतादिनिर्वाहहेतुकं । समासस्तु सती च ते धर्मचरणे चर तयोर्वार्ता २ तस्या निमित्तं तत्तथा, तदिष्टम्अभिमतमिति ॥ १३०॥ ___अपिच-लोकवार्ताऽन्वेषणाप्रयोजनमिदमपरम् लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥१३१॥ लोकः खलु-जनपद एवाधारः-आश्रयो, वर्तत इति शेषः, सर्वेषां धर्मचारिणां-संयमिनां यस्मात्कारणात् तस्मात्कारणात् लोके-पृथगजनपदे विरुद्धं-जातमृतसूतकनिराकृतगृहेषु भिक्षाग्रहणमसंगतं तत्तथा । तथा धर्मविरुद्धं-मधुमांसादिग्रहणं । चः समुच्चये। संत्याज्यं-परिहार्यमिति ॥ १३१॥ Jain Education a l For Private Personal Use Only Khjainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy