________________
OSSESSUSTUS
यतो रोपादयो ज्वर इव ज्वरस्तद्रहितत्वात् , यद्वा पाठान्तरे निर्गता जरा-हानिः, सा च प्रस्तावात् प्रशमामृतस्य यस्यासौ|४|लोकवाचानिर्जर इति ॥ १२९॥
विरोधः अनन्तरं 'सन्त्यज्य लोकचिन्ता'मित्युक्तं, तत् कथं परित्यक्तलोकचिन्तस्य साधोराहारादिभिनिर्वाहः?, ततः कथं सद्धमचरणवृत्तिः स्यादित्याशङ्याह___ या चेह लोकवार्ता शरीरवार्ता तपखिनां या च । सद्धर्मचरणवार्तानिमित्तकं तद्वयमपीष्टम् ॥ १३०॥
या काचित् , चकारौ परस्परं समुच्चयार्थों, इहलोकवार्ता-कृष्यादिभिर्लोकनिर्वाहः, इह वर्तनं वृत्तिः सैव स्वार्थिकाण्प्रत्लयाद्वार्ता । तथा या च शरीरवार्ता-देहसंधारणं । केषां ?-तपस्विनां-साधूनां, एतद्वयमपि सद्धर्मचरणवाानिमित्तकशोभनक्षान्त्यादिधर्मव्रतादिनिर्वाहहेतुकं । समासस्तु सती च ते धर्मचरणे चर तयोर्वार्ता २ तस्या निमित्तं तत्तथा, तदिष्टम्अभिमतमिति ॥ १३०॥ ___अपिच-लोकवार्ताऽन्वेषणाप्रयोजनमिदमपरम्
लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥१३१॥ लोकः खलु-जनपद एवाधारः-आश्रयो, वर्तत इति शेषः, सर्वेषां धर्मचारिणां-संयमिनां यस्मात्कारणात् तस्मात्कारणात् लोके-पृथगजनपदे विरुद्धं-जातमृतसूतकनिराकृतगृहेषु भिक्षाग्रहणमसंगतं तत्तथा । तथा धर्मविरुद्धं-मधुमांसादिग्रहणं । चः समुच्चये। संत्याज्यं-परिहार्यमिति ॥ १३१॥
Jain Education
a
l
For Private Personal Use Only
Khjainelibrary.org