________________
SARANASANCES
द्विचत्वारिंशद्देदा नाम्नः, द्वौ वारौ द्विः द्विश्च पञ्च च २ ते तथा भेदा यस्य स तथा । तत्र भेदद्वयं गोत्रस्य पञ्च भेदा कर्मभेदाः अन्तरायस्येति ॥ ३५॥
अथ प्रकृतिबन्धस्वरूपपुरःसरमेतासामेवानन्तरोक्तमूलोत्तरप्रकृतीनां स्थितिबन्धादीनाश्रित्य तीव्रादिवन्धोदयानाहप्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः। तीब्रो मन्दो मध्य इति भवति बन्धोदयविशेषः॥३६॥
प्रकृतिरिति जातावेकवचनम् । इयं पूर्वोक्तस्वरूपा अनेकविधा-बहुप्रकारा, मूलोत्तरभेदतो वर्तत इति शेषः । अनेन प्रकृतिबन्ध इति प्रतिपादितं भवति । तस्याः प्रकृतेः स्थित्यादीनामृत्य तीव्रादिभेदो बन्धोदयविशेषो भवतीति संटंकः । तत्र स्थितिः प्रकृतेर्बद्धायाः सत्या अविनाशेनावस्थानम् । अनुभावस्तु तस्या एव कटुककटुकतरादिभावेन वेदनम् । प्रदेशस्तु कर्मपुद्गलानामात्मप्रदेशैः सह संश्लेषः । ततो इन्द्रः, ते तथा तेभ्यः-ततः सकाशात्, तानाश्रित्येत्यर्थः। तस्या इति योजितमेव। किम?-तीवो-गाढस्तथा मन्दः-स्तोकः तथा मध्यो-मध्यवर्तीत्येवं भवति-जायते बन्धः-संग्रह उदयः-अनुभवनम्, तयोर्विशेषो-भेदो यः स तथा, बन्धविशेषः उदयविशेषश्चेत्यर्थ इति । किमुक्तं भवति ?-यदा प्रकृतेः स्थितिरुत्कृष्टा भवति । तदा अनुभावप्रदेशावप्युत्कृष्टौ भवतः, ततस्तस्यामुत्कृष्टस्थितौ तीव्रौ बन्धोदयौ स्याताम् , एतदनुसारेण मन्दमध्यौ तौ भावनीयाविति ॥ उत्कृष्टा स्थितियथा-"आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ।अयराण मोहणिजस्स सत्तरी होइ विन्नेया ॥१॥नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिई भणिया। तेत्तीस सागराई परमा आउस्स बोद्धबा ॥२॥ जघन्या तु-चेयणियस्स उ बारस नामगोयाण अट्ठ उ मुहुत्ता । सेसाण जहन्नठिई भिन्नमुहुत्तं विणिहिट्ठा ॥३॥"
RESUPERRORE
Jain Education
For Private
Personel Use Only
ujainelibrary.org