SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि.वृत्तिः ॥७॥ रणीयं चक्षदर्शनावरणादिचतुष्कं निद्रापञ्चकं चेति नवविधम् । वेदनीयं तु सातासातरूपं द्वेधा। मोहनीयं पुनर्द्विधा-द मोहनीयं चारित्रमोहनीयं च, तत्र मिथ्यात्वमिश्रसम्यक्त्वभेदात् दर्शनमोहनीयं त्रिधा, अनन्तानुबन्धिप्रभृतिकषायपोडशकहास्यादिषट्ठवेदत्रिकभेदाचारित्रमोहनीयं पञ्चविंशतिविधमित्युभयमीलनेऽष्टाविंशतिभेदम् । आयुर्नरकादिभेदाच्चतर्धा । नामकर्म तु द्विचत्वारिंशद्भेदं, तत्र गतिजात्यादिपिण्डप्रकृतयश्चतुर्दश, प्रत्येकप्रकृतयोऽष्टी, सादिविंशतिरिति मीलिता द्विचत्वारिंशत् । तथा गोत्रमुच्चैनीचैर्भेदावेधा । दानादिभेदादन्तराय (कर्म) पञ्चविधमिति । यद्यपि केनापि अभिप्रायेण सप्तनवतिः प्रतिपादिता तथापि बन्धप्रस्तावाविंशत्यधिकं शतं ग्राह्यम् । तच्च नाम्नः कथंचित्पिण्डप्रकृ(ग्रं० २०० )तिविस्तारे पदसप्तति (पष्टि) भवति, तस्याः सप्तकर्मप्रकृतिमध्यप्रक्षेपे सम्यक्त्वमिश्रद्वयापनये च विंशत्यधिकं शतं भवति । तदुक्तम्-"चउ गइ ४ जाई ५ तणु पण ५ अंगोवंगाई ३ छच्च संघयणा ६। छागिइ ६ चउ वन्नाई ४ चउ अणुपुष्वि ४ दुह विहगगई २॥१॥ इय गुणचत्ता ३९ सेसऽवीस २८ मिय सत्तसहि ६७ नामस्स । सेससगकम्म ५५ जोगे सम्मामीस विणु वीससयं ॥२॥" विस्तारतः प्रकृतिवर्णनाद्यन्यतोऽवसेयमिति । अन्ये त्वेवमाहुः-पञ्च नव यष्टाविंशतिश्चतुरित्यादिपाठान्तरमाश्रित्य यथा पञ्च नवेति पदद्वयं प्रथमाबहुवचनान्तम् , ततश्चाग्रेतनभेदशब्दोऽन्यशब्दसम्बद्धोऽपि इत्थं योज्यते-पञ्च भेदा ज्ञानावरणस्य नव भेदा दर्शनावरणस्य ।द्वा (भ्यां) वेदनी (या)भ्यां युक्ता अष्टाविंशतिः२ सा तथा। ततो द्वौ भेदौ वेद्यस्य अष्टाविंशतिर्भदा मोहनीयस्य । तथा चत्वारश्च षट्सप्तगुणश्च २ ते भेदा यस्य बन्धस्य स तथा । ततश्च चत्वारो भेदा आयुषः, षट्सप्तगुणो E-RELEA Mainelibrary.org Jain EducationK For Private Personal Use Only anal K
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy