________________
प्रशमरतिः हारि. वृत्तिः
अन्तर्भावो बन्धहेतुताच
अथ मूलभणनपूर्व पृथकपदद्वयेनैषां अन्तर्भावमार्याद्वयेनाहममकाराहङ्कारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः॥३१॥
माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनष इति समासनिर्दिष्टः ॥३२॥ ममकारो-ममेदं अहमस्य स्वामीत्याद्यः अध्यवसायः । अहङ्कारस्त्वहमेव प्रधानोऽन्यो ममाधम इत्यादिपरिणामस्तो, तथा किमित्याह-एषां कषायाणां मूलं-बीज उत्थानमित्यर्थः। पदद्वयमुक्तस्वरूपं भवति-जायते । तत्र ममकारे मायालोभी, अहङ्कारे क्रोधमानौ स्तः, इत्याभ्यां चत्वारोऽपि कषाया गृहीताः। तथा रागद्वेषौ-प्रीत्यप्रीती क्रोधादीनामुत्थानभूताविति प्रक्रम इति, अपिशब्द उपप्रदर्शनार्थः । तस्यैव-ममकाराहङ्कारेतिपदद्वयस्यैव, अन्यः-अपरः, तु समुच्चयार्थः, पर्यायोनामान्तरम् , भावार्थः प्राग्वदिति ॥ ३१॥ सुगमम् । किंतु द्वन्द्वं-युग्मं समासः-संक्षेपार्थो, भावार्थस्तु पूर्वार्याभावनातोऽवसेय इति ॥ ३२॥
अनन्तरं रागद्वेषा(वुक्ता)वथ तयोरेव सामान्यसामर्थ्यमाह.... मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३॥
'मिथ्यादृष्टिरिति' मिथ्यात्वम्-आभिग्रहिकादि पञ्चधा । न विरमणम्-अविरतिः पृथिव्यादिषु द्वादशविधम् । प्रमादोमद्यादिः पञ्चप्रकारः, योगाः-सत्यादयः पञ्चदशविधाः, ततो द्वन्द्वः ते तयोः-अनयो रागद्वेषयोर्बलम्-आदेशकारि सैन्यम्,
CA4%ARECHARSASSES
an Education
For Private Personal Use Only
www.jainelibrary.org