SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 1 श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ? ॥ २७ ॥ मायाशीलः पुरुषो यद्यपि न करोति कंचिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः ॥ २८ ॥ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् । ॥ २९ ॥ आर्याद्वयमपि सुगमम् ॥ २६ ॥ २७ ॥ मायाशीलः - शाठ्यस्वभावः पुरुषो यद्यपि न करोति कञ्चिदपराधमिति व्यक्तम् तथाप्यात्मदोषहतः - स्वदूषणतिरस्कृत इत्यविश्वास्यो भवति । किंवत् ? - सर्पवत् - सर्प इव । यथा सर्प उत्खातदशनोऽप्यविश्वसनीयो भवति एवं मायान्यपि नर इत्यार्यार्थः ॥ २८ ॥ सर्वविनाशाश्रयिणः - निखिलापायभागिनः सर्वव्यसनानां - द्यूतादीनामेक:- अद्वितीयो राजमार्गः - सर्वसंचरणपथः, तस्य लोभस्य को मुखगतो -प्रासीभूतः क्षणमपि - स्तोककालमपि, आस्तां प्रभूतकालम्, दुःखान्तरम् - असातव्यवधानमुपेयात् - गच्छेत् ? । इत्यार्या चतुष्टयार्थः ॥ २९ ॥ अथ सामान्येनैषां भवमार्गनायकत्वमाह I एवं क्रोधो मानो माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसारदुर्गमार्गप्रणेतारः ॥ ३० ॥ एते क्रोधादयो दुःखहेतुत्वात् सत्त्वानां जीवानाम्, कथंभूता भवन्तीत्याह - भवे - नरकादौ संसारः संसरणं तत्र दुर्गमार्गो - विषमाध्वा तस्य प्रणेतारो - नायकाः । इत्यार्यार्थः ॥ ३० ॥ इति कषायाधिकारः ॥ २ ॥ Jain Educationational For Private & Personal Use Only क्रोधादिफलं jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy