________________
अनर्थकारिता
प्रशमरतिः
दृश्यते, तत्र कर्शितो-दुर्बलीभूतः, ततः पदद्वयस्य कर्मधारयः। तथा करुणः-अदीनः। तथा अनुगतः, ईषदासक्तस्तृष्यतीति हारि. वृत्तिः । तृषः-प्राचुर्येण पिपासितः, ततः पदद्वयस्य कर्मधारयः। ततो विषयसुखेष्वनुगततृप इति समासः। अन्ये त्वनुगततृषः कृता-
भिलाष इत्याहुः । स किमित्याह-कषायवक्तव्यतामेति-क्रोधादिवा(मा) नेष इति भणनीयतां याति । इत्यार्याचतुष्टयी, ॥ २३ ॥ इति शास्त्रस्य पीठबन्धः॥
स कषायवक्तव्यतानुगतः प्राणी यानपायान् प्राप्नोति तद्भणनेऽशक्तिमाह| स क्रोधमानमायालोभैरतिदुर्जयः परामृष्टः । प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्तः? ॥२४॥ | स जीवः क्रोधादिभिरतिदुर्जयैः-कष्टेनाभिभवनीयैः परामृष्टो-वशीकृतः। किमित्याह-प्रामोति-लभते, यान् कांश्चिद्
अनर्थान-अपायान्, कः?, न कश्चिदित्यर्थः। ताननर्थानुद्देष्टमपि-भणितुमपि, आस्तां परिहर्तुम् , शक्तः-समर्थो, भवतीति | शेषः इत्यार्यार्थः ॥२४॥
तानेव लेशत आहक्रोधात् प्रीतिविनाशं मानाद्विनयोपघातमानोति । शाठ्यात् प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ॥२५॥
आमोतीति क्रियापदं चतुर्वपि पदेषु योज्यम् । शेषं सुगममिति ॥ २५॥ __ अथ प्रत्येकमार्याचतुष्टयेन कषायदोषानाहक्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ २६ ॥
Jan Education
!
For Private Personel Use Only
nelibrary.org