SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अनर्थकारिता प्रशमरतिः दृश्यते, तत्र कर्शितो-दुर्बलीभूतः, ततः पदद्वयस्य कर्मधारयः। तथा करुणः-अदीनः। तथा अनुगतः, ईषदासक्तस्तृष्यतीति हारि. वृत्तिः । तृषः-प्राचुर्येण पिपासितः, ततः पदद्वयस्य कर्मधारयः। ततो विषयसुखेष्वनुगततृप इति समासः। अन्ये त्वनुगततृषः कृता- भिलाष इत्याहुः । स किमित्याह-कषायवक्तव्यतामेति-क्रोधादिवा(मा) नेष इति भणनीयतां याति । इत्यार्याचतुष्टयी, ॥ २३ ॥ इति शास्त्रस्य पीठबन्धः॥ स कषायवक्तव्यतानुगतः प्राणी यानपायान् प्राप्नोति तद्भणनेऽशक्तिमाह| स क्रोधमानमायालोभैरतिदुर्जयः परामृष्टः । प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्तः? ॥२४॥ | स जीवः क्रोधादिभिरतिदुर्जयैः-कष्टेनाभिभवनीयैः परामृष्टो-वशीकृतः। किमित्याह-प्रामोति-लभते, यान् कांश्चिद् अनर्थान-अपायान्, कः?, न कश्चिदित्यर्थः। ताननर्थानुद्देष्टमपि-भणितुमपि, आस्तां परिहर्तुम् , शक्तः-समर्थो, भवतीति | शेषः इत्यार्यार्थः ॥२४॥ तानेव लेशत आहक्रोधात् प्रीतिविनाशं मानाद्विनयोपघातमानोति । शाठ्यात् प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ॥२५॥ आमोतीति क्रियापदं चतुर्वपि पदेषु योज्यम् । शेषं सुगममिति ॥ २५॥ __ अथ प्रत्येकमार्याचतुष्टयेन कषायदोषानाहक्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ २६ ॥ Jan Education ! For Private Personel Use Only nelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy