SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education रागद्वेषाभ्यां परिगतो व्याप्त इति समासः, मिथ्यात्वेनोपहता २ सा चासौ कलुषा च मलिना सा तथा तया । कया एवंविधया ? - दृष्ट्या - बोधरूपया करणभूतया । किमित्याह - पञ्चास्रवाः - प्राणातिपातादयः तैः करणभूतैर्मलः - कर्मबन्धस्तेन बहुलो - व्याप्तः स तथा, तथा स चासावार्तरौद्रयोस्तीत्राभिसन्धानश्च - गाढचिन्तनः स तथेति समास इति ॥ २० ॥ कार्य जीवरक्षादिकम् अकार्य-जीववधादिकम् तयोर्विनिश्चयो - निर्णयः स तथा स च संक्लेशः - कालुष्यम्, विशुद्धि: - नैर्मल्यम्, | तयोः क्लिष्टचित्ततानिर्मलचित्ततारूपयोर्लक्षणानि - परिज्ञानानि तथा तानि चेति समासः, तैः करणभूतैर्मूढो - मुग्धः, तथा आहा| रभयपरिग्रहमैथुनसंज्ञाः प्रसिद्ध रूपास्ता एव कलयः - कलहाः कलिहेतुत्वात् तैर्ग्रस्तः- आघात इति समास इति ॥ २१ ॥ क्लिष्टानि च तानि - क्रूराण्यष्टकर्माणि च प्रसिद्धानि तानि तथा, तान्येव बन्धनं - नियन्त्रणम्, तेन बद्धो- नियन्त्रितः, स चासौ निकाचितश्च - अतिनियन्त्रितः स तथा, अत एव गुरुः- भाराक्रान्तः, ततः कर्मधारयः । यद्वा क्लिष्टाष्टकर्मणां उपलक्षणत्वेन बन्धनबद्धनिधत्तनिका चितानि कृतद्वन्द्वानीति चत्वारि पदानि दृश्यानि तैर्गुरुः स तथा । अत्र लोहमयः सूचीकलापो दृष्टान्तः, यथा बन्धनं स्पृष्टं दवरकबद्धसूचीनां मीलनमात्रमिव गुरुकर्मणां जीवप्रदेशैः सह योगमात्र मल्पप्रयाससाध्यम् १ तथा बद्धं-सूची कलापस्य खपरिकयाऽन्योऽन्यबन्धनमिव तेषां तैः सह २ तथा (नि) धत्तं - ध्यातं सूचीनां परस्परसंलुलितत्वमिव, शेषं तथैव ३ तथा निकाचितं - वह्नितप्तकुट्टितसूचीनां निर्नष्टविभागत्वमिव, शेषं तथैव ४ केष्वेवं बन्धो ? - गतिशतेषु, कैः करणभूतैः ? - जन्ममरणैरजस्रम् - अनवरतम् बहुविधपरिवर्तनाभ्रान्तः - अनेकप्रकारघोलनापर्यटित इति ॥ २२ ॥ दुःखसहस्राण्येव | निरन्तरो - विश्रामरहितो गुरुः-महान् भारस्तेन आक्रान्तः- पीडितः स तथा, तथा कर्षितो विलिखितः, कापि कर्शित इति For Private & Personal Use Only कषायिलक्षणं Jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy