SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ४/माध्यस्थ्यरागद्वेषपर्यायाः ॥४॥ अथ वैराग्यपर्यायानाहमाध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः॥ १७॥ सुगमम् , नवरं अष्टौ वैराग्यपर्यायाः॥१७॥ वैराग्यं तु रागद्वेषाभावे स्याद्, अतस्तयोः पर्यायानार्याद्वयेनाहइच्छा मूर्छा कामः लेहो गायं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१८॥ ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः। वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायाः॥१९॥ व्यक्तम् । किंतु रागस्याष्टौ पर्यायाः ॥ १८॥ स्पष्टमेव, किंतु द्वेषस्य नव नामानि-ईर्ष्या १ रोषः २ दोषः ३ द्वेषः ४ परिवादः ५ मत्सरः ६ असूया ७ वैरं ८ प्रचण्डनं ९ इत्यादि । आदिशब्दादन्येऽपि ज्ञेया इति, आर्यात्रयेणा(येऽपि पदानां किंचिदर्थभेदोऽप्यस्ति स स्वधियाऽभ्यूह्य इति ॥ १९॥ अथ यादृश आत्माऽनयोरुदये भवति तादृशमार्याचतुष्टयेनाहरागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चास्रवमलबहुलाऽर्तरौद्रतीवाभिसन्धानः ॥२०॥ कार्याकार्यविनिश्चयसंक्लेशविशुद्धिलक्षणैर्मूढः। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः॥२१॥ क्लिष्टाष्टकर्मबन्धनबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुविधपरिवर्तनाभ्रान्तः ॥ २२ ॥ दुःखसहस्रनिरन्तरगुरुभाराकान्तकर्षितः करुणः। विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥ २३ ॥ HORARISAURUSALUTATHIRAIRES ॥४॥ Jain Education IDEional For Private Personel Use Only jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy