SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education अमुमेवार्थ आर्यात्रयेण भावयन्नाह - द्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्वागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ १३ ॥ यद्वदुपयुक्तपूर्वमपि भेषजं सेव्यतेऽर्तिनाशाय । तद्वद्वागार्तिहरं बहुशोऽप्यनुयोज्यमर्थपदम् ॥ १४ ॥ वृत्त्यर्थं कर्म यथा तदेव लोकः (ग्रंथसंख्या १००) पुनः पुनः कुरुते । एवं विरागवार्ता हेतुरपि पुनः पुनश्चिन्त्यः ॥ १५॥ यद्वत्-यथा विषघातार्थ - गरोत्तारणाय मन्त्रपदे - ॐकारादिके वचने, समुच्चार्यमाणे इति शेषः । न पुनरुक्तदोषोऽस्ति - नैव भूयोभणनदूषणं विद्यते तद्वत्-तथा रागविषघ्नं-गविनाशकम् पुनरुक्तं भूयोभणितम् अदुष्टम् अदूषणवत् अर्थपदंसूचकत्वात् सूत्रस्यार्थवाचकं पदमिति आर्यार्थः ॥ १३ ॥ यद्वत् यथा उपयुक्तपूर्वमपि - प्रथमप्रयुक्तमपि भेषजम् - औषधम् सेव्यते - पुनः क्रियतेऽर्तिनाशाय - पीडाविनाशार्थम् तद्वत्-तथा रागार्तिहरं - प्रतिबन्धपीडानाशकम् बहुशोऽपि - अनेकधाऽप्यनुयोज्यं - उच्चारणीयम् अर्थपदं - अभिधेयवत्पदमित्यार्यार्थः ॥ १४ ॥ वृत्त्यर्थम् - जीवनार्थ कर्म - कृष्यादिकम् स यथा यद्वत् तदेव कृष्यादिकं लोको-जनः पुनः पुनरित्यादि सुगमम् ॥ १५ ॥ इतो वैराग्यानयनोपायमाह - दृढतामुपैति वैराग्यभावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यासः ॥ १३ ॥ दृढतां - स्थैर्यमुपैति - गच्छति वैराग्यभावना -विरागतावासना येन येन भावेन - विशिष्टान्तःकरणाभिप्रायेण तस्मिंस्तस्मिन् कार्ये विधातव्यः । काभिः क इत्याह- कायमनोवाग्भिरभ्यास इति व्यक्तम् ॥ इत्यार्यार्थः ॥ १६ ॥ tional For Private & Personal Use Only अदुष्ट पौनरुक्तयं w.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy