________________
Jain Education
अमुमेवार्थ आर्यात्रयेण भावयन्नाह -
द्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्वागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ १३ ॥ यद्वदुपयुक्तपूर्वमपि भेषजं सेव्यतेऽर्तिनाशाय । तद्वद्वागार्तिहरं बहुशोऽप्यनुयोज्यमर्थपदम् ॥ १४ ॥ वृत्त्यर्थं कर्म यथा तदेव लोकः (ग्रंथसंख्या १००) पुनः पुनः कुरुते । एवं विरागवार्ता हेतुरपि पुनः पुनश्चिन्त्यः ॥ १५॥ यद्वत्-यथा विषघातार्थ - गरोत्तारणाय मन्त्रपदे - ॐकारादिके वचने, समुच्चार्यमाणे इति शेषः । न पुनरुक्तदोषोऽस्ति - नैव भूयोभणनदूषणं विद्यते तद्वत्-तथा रागविषघ्नं-गविनाशकम् पुनरुक्तं भूयोभणितम् अदुष्टम् अदूषणवत् अर्थपदंसूचकत्वात् सूत्रस्यार्थवाचकं पदमिति आर्यार्थः ॥ १३ ॥ यद्वत् यथा उपयुक्तपूर्वमपि - प्रथमप्रयुक्तमपि भेषजम् - औषधम् सेव्यते - पुनः क्रियतेऽर्तिनाशाय - पीडाविनाशार्थम् तद्वत्-तथा रागार्तिहरं - प्रतिबन्धपीडानाशकम् बहुशोऽपि - अनेकधाऽप्यनुयोज्यं - उच्चारणीयम् अर्थपदं - अभिधेयवत्पदमित्यार्यार्थः ॥ १४ ॥ वृत्त्यर्थम् - जीवनार्थ कर्म - कृष्यादिकम् स यथा यद्वत् तदेव कृष्यादिकं लोको-जनः पुनः पुनरित्यादि सुगमम् ॥ १५ ॥
इतो वैराग्यानयनोपायमाह -
दृढतामुपैति वैराग्यभावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यासः ॥ १३ ॥ दृढतां - स्थैर्यमुपैति - गच्छति वैराग्यभावना -विरागतावासना येन येन भावेन - विशिष्टान्तःकरणाभिप्रायेण तस्मिंस्तस्मिन् कार्ये विधातव्यः । काभिः क इत्याह- कायमनोवाग्भिरभ्यास इति व्यक्तम् ॥ इत्यार्यार्थः ॥ १६ ॥
tional
For Private & Personal Use Only
अदुष्ट पौनरुक्तयं
w.jainelibrary.org