SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः सतां ग्रहाच्छोभा पोपकता च ॥३॥ अथैवंविधायाः सद्भिर्गृहीतायाः को गुणः स्यादित्याहसद्भिः सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥ सद्भिः सुपरिगृहीतम्-अतिशयेनाङ्गीकृतम् यत्किमपि-असारमपि, आस्तां सारम् , प्रकाशतां-प्रकटताम् , याति-गच्छतिइति दार्टान्तिकः, दृष्टान्तमाह-मलिनोऽपि-कृष्णोऽपि, आस्ताममलिनः, यथा-येन प्रकारेण, हरिणो-मृगः,प्रकाशते-शोभते, कीदृशः?-पूर्णचन्द्रस्थः-पौर्णमासीशशिमध्यस्थित इति आर्यार्थः॥१०॥ अन्यदपि सज्जनचेष्टितं दृष्टान्तान्तरयुतमाहबालस्य यथा वचनं काहलमपि शोभते पितृसकाशे। तद्वत् सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ | बालस्य-शिशोर्यथा वचन-जल्पितम् , काहलमपि-अव्यक्ताक्षरमपि शोभते-राजते पितृसकाशे-मातापित्रोरग्रत इति दृष्टान्तः, दार्टान्तिकमाह-तद्वत्-तथा सजनमध्ये प्रलपितमपि-अनर्थकं वचनमपि सिद्धिमुपयाति-ख्यातिमुपैतीत्यर्थः॥११॥ ननु पूर्वकविकृता अपि शमजननशास्त्रपद्धतयः सन्ति तत् पुनः किमनयेत्याशङ्याहये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिताः। तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥ १२॥ ये तीर्थकृत्प्रणीता भावा-जीवादयस्तदनन्तरैश्च-गणधरादिभिः परिकथिताः-प्रकीर्तिताः तेषां बहुशोऽप्यनुकीर्तन भवति पुष्टिकरम् । एवं अनेकधाऽपि संशब्दनं भवति-जायते पुष्टिकरमेवेत्यार्यार्थः ॥ १२॥ ॥३॥ 597 Mmjainelibrary.org Jain Education a For Private Personal Use Only l
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy